Go To Mantra
Viewed 104 times

समी॑क्षयन्तु तवि॒षाः सु॒दान॑वो॒ऽपां रसा॒ ओष॑धीभिः सचन्ताम्। व॒र्षस्य॒ सर्गा॑ महयन्तु॒ भूमिं॒ पृथ॑ग्जायन्ता॒मोष॑धयो वि॒श्वरू॑पाः ॥

Mantra Audio
Pad Path

सम् । ईक्षयन्तु । तविषा: । सुऽदानव: । अपाम् । रसा: । ओषधीभि: । सचन्ताम् । वर्षस्य । सर्गा: । महयन्तु । भूमिम् । पृथक् । जायन्ताम् । ओषधय: । विश्वऽरूपा: ॥१५.२॥

Atharvaveda » Kand:4» Sukta:15» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

वृष्टि की प्रार्थना और गुणों का उपदेश।

Word-Meaning: - (तविषाः) विशाल गुणवाले (सुदानवः) बड़े दान करनेवाले [मेघ, हमें वृष्टि] (समीक्षयन्तु) दिखावें, (अपाम्) जल के (रसाः) रस (ओषधीभिः) अन्नादि ओषधियों से (सचन्ताम्) एक रस हो जावें। (वर्षस्य) वर्षा की (सर्गाः) धाराएँ (भूमिम्) भूमि को (महयन्तु) समृद्ध करें, (विश्वरूपाः) नाना रूपवाली (ओषधयः) चावल, यवादि ओषधें (पृथक्) नाना प्रकार से (जायन्ताम्) उत्पन्न होवें ॥२॥
Connotation: - जैसे मेघों की वर्षा से सब लोग आनन्द पाते हैं, वैसे ही मनुष्य विद्वानों के सत्सङ्ग से लाभ उठावें ॥२॥
Footnote: २−(समीक्षयन्तु) ईक्ष दर्शने, णिच्। संदर्शयन्तु अस्मान् वृष्टिम् (तविषाः) तवेर्णिद्वा। उ० १।४८। इति तु वृद्धिहिंसापूर्तिषु-टिषच्। तविषो महन्नाम निघ० ३।३। महान्तः (सुदानवः) दाभाभ्यां नुः। उ० ३।३२। इति दा-नु। शोभनदाना मेघाः (अपाम्) उदकानाम् (रसाः) श्रेष्ठगुणाः (ओषधीभिः) व्रीहियवादिभिः। अन्नैः। (सचन्ताम्) षच समवाये। समवयन्तु (वर्षस्य) वृष्टिजलस्य (सर्गाः) सृज्यमानाः प्रवाहाः (महयन्तु) मह वृद्धौ। वर्धयन्तु। समर्धयन्तु (भूमिम्) पृथिवीं भूमिस्थपदार्थानित्यर्थः (पृथक्) नाना प्रकारेण जातिभेदेन (जायन्ताम्) उत्पद्यन्ताम् (ओषधयः) व्रीहियवाद्याः (विश्वरूपाः) नानाविधाः ॥