Go To Mantra
Viewed 108 times

अ॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता नः॒ श्वस॑न्तु॒ गर्ग॑रा अ॒पां व॑रु॒णाव॒ नीची॑र॒पः सृ॑ज। वद॑न्तु॒ पृश्नि॑बाहवो म॒ण्डूका॒ इरि॒णानु॑ ॥

Mantra Audio
Pad Path

अप: । निऽसिञ्चन् । असुर: । पिता । न: । श्वसन्तु । गर्गरा: । अपाम् । वरुण । अव । नीची: । अप: । सृज । वदन्तु । पृश्निऽबाहव: । मण्डूका: । इरिणा । अनु ॥१५.१२॥

Atharvaveda » Kand:4» Sukta:15» Paryayah:0» Mantra:12


PANDIT KSHEMKARANDAS TRIVEDI

वृष्टि की प्रार्थना और गुणों का उपदेश।

Word-Meaning: - (नः) हमारा (पिता) पालन करनेवाला (असुरः) प्राणदाता मेघ (अपः) जलधाराएँ (निषिञ्चन्) उंडेलता हुआ [वर्तमान हो]। (अपाम्) जलके (गर्गराः) गड़गड़ाते हुए गगरे (श्वसन्तु) श्वास लेवें। (वरुण) हे वरणीय मेघ ! (अपः) जलधाराओं को (नीचीः) नीचे की ओर (अव सृज) छोड़दे। (पृश्निबाहवः) छोटी छोटी भुजावाले (मण्डूकाः) शोभा बढ़ानेवाले वा डुबकी लगानेवाले मेंडके (इरिणा= इरिणानि) ऊसर भूमियों को (अनु= अनुहाय) छोड़कर (वदन्तु) ध्वनि करें ॥१२॥
Connotation: - बरसा होने पर जैसे मेंडकों में फिर प्राण आजाते हैं, इसी प्रकार अनेक पदार्थ उगकर आनन्ददायक होते हैं ॥१२॥ इस मन्त्र का पहिला पाद (अपो....नः) ऋ० ५।८३।६। का चौथा पाद है ॥
Footnote: १२−(अपः) जलानि (निषिञ्चन्) न्यग्भावेन नितरां वा वर्षयन् (असुरः) अ० १।१०।१। असून् प्राणान् रातीति। असु+रा दाने-क। प्राणप्रदः। मेघः-निघ० १।१०। (पिता) पालकः (नः) अस्माकम् (श्वसन्तु) उच्छ्वसिता भवन्तु (गर्गराः) मुदिग्रोर्गग्गौ। उ० १।१२८। इति ग शब्दे-ग प्रत्ययः। गर्ग+रा-क। गर्गशब्दं रान्ति ददतीति। शब्दं कुर्वाणः कलसा जलपात्राणि। प्रवाहाः (अपाम्) उदकानाम् (वरुण) हे वरणीय जलेश मेघ (नीचीः) न्यग्भावं गताः (अपः) वृष्टिधाराः (अव) नीचैः (सृज) त्यज (वदन्तु) ध्वनिं कुर्वन्तु (पृश्निबाहवः) स्वल्पभुजयुक्ताः (मण्डूकाः) शलिमण्डिभ्यामूकण्। उ० ४।४२। इति मडि भूषणे-ऊकण्। यद्वा। मस्ज स्नाने-ऊकण्, जकारस्य डकारे नुमि ष्टुत्वम्। मण्डयन्ति भूषयन्ति जलाशयं निमज्जन्ति जले वा। मण्डूका मज्जका मज्जनान्मदतेर्वा मोदतिकर्मणो मन्दतेर्वा तृप्तिकर्मणो मण्डयतेरिति वैयाकरणा मण्ड एषामोक इति वा मण्डो मदेर्वा मुदेर्वा-निरु० ९।५। मण्डनशीलाः। मज्जनस्वभावाः। मज्जूकाः। भेकाः (इरिणा) अर्तेः किदिच्च। उ० २।५१। इति ऋ० हिंसागतिप्रापणेषु-इनन्, शेर्लोपः। इरिणानि। ऊषरभूमीः (अनु) हीने। विहाय ॥