Go To Mantra
Viewed 110 times

प्र॒जाप॑तिः सलि॒लादाः स॑मु॒द्रादाप॑ ई॒रय॑न्नुद॒धिम॑र्दयाति। प्र प्या॑यतां॒ वृष्णो॒ अश्व॑स्य॒ रेतो॒ऽर्वाङे॒तेन॑ स्तनयि॒त्नुनेहि॑ ॥

Mantra Audio
Pad Path

प्रजाऽपति: । सलिलात् । आ । समुद्रात् । आप: । ईरयन् । उदऽधिम् । अर्दयाति । प्र । प्यायताम् । वृष्ण: । अश्वस्य । रेत: । अवाङ् । एतेन । स्तनयित्नुना । आ । इहि॥१५.११॥

Atharvaveda » Kand:4» Sukta:15» Paryayah:0» Mantra:11


PANDIT KSHEMKARANDAS TRIVEDI

वृष्टि की प्रार्थना और गुणों का उपदेश।

Word-Meaning: - (प्रजापतिः) प्रजापालक सूर्य (सलिलात्) व्यापक (समुद्रात्) आकाश से (आपः=अपः) जल (आ ईरयन्) भेजता हुआ (उदधिम्) [पार्थिव] समुद्र को (अर्दयाति) दबावे [जल खैंचे]। (अश्वस्य) व्यापक (वृष्णः) बरसनेवाले मेघ का (रेतः) जल (प्रप्यायताम्) अच्छे प्रकार बढ़े। [हे पर्जन्य ! तू] (एतेन) इस (स्तनयित्नुना) गर्जन के साथ (अर्वाङ्) सन्मुख (आ इहि) आ ॥११॥
Connotation: - मन्त्र १० के समान है ॥११॥ इस मन्त्र का चौथा पाद (अर्वाङेतेन....) ऋ० ५।८३।६। का तीसर पाद है ॥
Footnote: ११−(प्रजापतिः) प्रजानां पालयिता वृष्टिप्रदः सूर्यः (सलिलात्) सलिकल्यनि०। उ० १।५४। इति पल गतौ-इलच्। व्यापनशीलात् (आ) समन्तात् (समुद्रात्) अन्तरिक्षात्-निघ० १।३। (आपः) सुपां सुलुक्०। पा० ७।१।३९। इति शसः स्थाने जस्। अपः। उदकानि (ईरयन्) प्रेरयन् (उदधिम्) जलधिम् (अर्दयाति) अर्दयतेर्लेटि आडागमः। अर्दयतु। रश्मिभिर्जलादानेन पीडयतु (प्र प्यायताम्) प्रवर्धताम् (वृष्णः) वर्षकस्य मेघस्य (अश्वस्य) व्यापकस्य (रेतः) स्रुरीभ्यां तुट् च। उ० ४।२०२। इति रि, रीङ् स्रवणे-असुन्, तुट् च। उदकम्-निघ० १।१२। (अर्वाङ्) अभिमुखः सन् (एतेन) पूर्वोक्तेन (स्तनयित्नुना) स्तनिहृषिपुषि०। उ० ३।२९। इति स्तन देवशब्दे-इत्नुच्। गर्जनेन सह (आ-इहि) आगच्छ हे पर्जन्य ॥