स॒मुत्प॑तन्तु प्र॒दिशो॒ नभ॑स्वतीः॒ सम॒भ्राणि॒ वात॑जूतानि यन्तु। म॑हऋष॒भस्य॒ नद॑तो॒ नभ॑स्वतो वा॒श्रा आपः॑ पृथि॒वीं त॑र्पयन्तु ॥
सम्ऽउत्पतन्तु । प्रऽदिश: । नभस्वती: । सम् । अभ्राणि । वातऽजूतानि । यन्तु । महाऽऋषभस्य । नदत: । नभस्वत: । वाश्रा: । आप: । पृथिवीम् । तर्पयन्तु ॥१५.१॥
PANDIT KSHEMKARANDAS TRIVEDI
वृष्टि की प्रार्थना और गुणों का उपदेश।
