Go To Mantra
Viewed 118 times

प्र॒तीच्यां॑ दि॒शि भ॒सद॑मस्य धे॒ह्युत्त॑रस्यां दि॒श्युत्त॑रं धेहि पा॒र्श्वम्। ऊ॒र्ध्वायां॑ दि॒श्यजस्यानू॑कं धेहि दि॒शि ध्रु॒वायां॑ धेहि पाज॒स्य॑म॒न्तरि॑क्षे मध्य॒तो मध्य॑मस्य ॥

Mantra Audio
Pad Path

प्रतीच्याम् । दिशि । भसदम् । अस्य । धेहि । उत्तरस्याम् । दिशि । उत्तरम् । धेहि । पार्श्वम् । ऊर्ध्वायाम् । दिशि । अजस्य । अनूकम् । धेहि । दिशि । ध्रुवायाम् । धेहि । पाजस्यम् । अन्तरिक्षे । मध्यत: । मध्यम् । अस्य ॥१४.८॥

Atharvaveda » Kand:4» Sukta:14» Paryayah:0» Mantra:8


PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्म की प्राप्ति का उपदेश।

Word-Meaning: - [हे मनुष्य !] (प्रतीच्याम्) पश्चिम वा पीछेवाली (दिशि) दिशा में (अस्य) इस [जीवात्मा] के (भसदम्) दीप्ति वा कटि भाग को (धेहि) धर, (उत्तरस्याम्) उत्तर वा बाईं (दिशि) दिशा में (उत्तरम्) बाएँ (पार्श्वम्) कक्षा के नीचे भाग को (धेहि) धर। (ऊर्ध्वायाम्) ऊपरवाली (दिशि) दिशा में (अजस्य) जीवात्मा की (अनूकम्) रीढ़ को (धेहि) धर, (ध्रुवायाम्) स्थिर (दिशि) दिशा में (अस्य) इसके (पाजस्यम्) बल देनेवाले उदर को, और (अन्तरिक्षे) आकाश में (मध्यतः) बीचाबीच (मध्यम्) मध्य भाग को (धेहि) धर ॥८॥
Connotation: - मन्त्र ७ देखो।
Footnote: ८−(प्रतीच्याम्) अ० ३।२६।३। पश्चिमायाम् पश्चात् स्थितायाम् (दिशि) दिशायाम् (भसदम्) शॄदृभसोऽदिः। उ० १।१३०। इति भस भर्त्सनदीप्त्योः-अदि। कटिप्रदेशं जघनं वा (अस्य) अजस्य (धेहि) स्थापय (उत्तरस्याम्) उदीच्याम्। वामभागवर्तमानायाम् (उत्तरम्) वामभागस्थम् (पार्श्वम्) म० ७ (ऊर्ध्वायाम्) अ० ३।२६।६। उपरि वर्तमानायाम् [अजस्य] म० १। जीवात्मनः (अनूकम्) अनु+उच् समवाये घञर्थे कः। न्यङ्क्वादीनां च। पा० ७।३।५३। इति कुत्वम्। पृष्ठवंशम् (ध्रुवायाम्) अ० २।२६।४। स्थिरायाम्। अधस्तात् (पाजस्यम्) पाज इति बलनाम-निघ० २।९। पाजसे हितम्। बलकरमङ्गम्। उदरम् (अन्तरिक्षे) आकाशे (मध्यतः) मध्यभागे (मध्यम्) शरीरमध्यभागम् (अस्य) निर्दिष्टस्य ॥