Go To Mantra
Viewed 110 times

पञ्चौ॑दनं प॒ञ्चभि॑र॒ङ्गुलि॑भि॒र्दर्व्योद्ध॑र पञ्च॒धैतमो॑द॒नम्। प्राच्यां॑ दि॒शि शिरो॑ अ॒जस्य॑ धेहि॒ दक्षि॑णायां दि॒शि दक्षि॑णं धेहि पा॒र्श्वम् ॥

Mantra Audio
Pad Path

पञ्चऽओदनम् । पञ्चऽभि: । अङ्गुलिऽभि: । दर्व्या । उत् । हर । पञ्चऽधा । एतम् । ओदनम् । प्राच्याम् । दिशि । शिर: । अजस्य । धेहि । दक्षिणायाम् । दिशि । दक्षिणम् । धेहि । पार्श्वम् ॥१४.७॥

Atharvaveda » Kand:4» Sukta:14» Paryayah:0» Mantra:7


PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्म की प्राप्ति का उपदेश।

Word-Meaning: - (एतम्) इस (पञ्चधा) पाँच प्रकार पर (पञ्चौदनम्) पाँच भूतों से सींचे हुए (ओदनम्) वृद्धि करनेवाले आत्मा को (पञ्चभिः) विस्तृत (अङ्गुलिभिः) चेष्टाओंके साथ (दर्व्या) विदारण वा पृथक् करण शक्ति से (उद्धर=उत्हर) ऊपर ला, (प्राच्याम्) अपने से पूर्व वा सन्मुख (दिशि) दिशा में (अजस्य) जीवात्मा का (शिरः) शिर (धेहि) धर, (दक्षिणायाम् दिशि) दक्षिण दिशा में (दक्षिणम्) दाहिने (पार्श्वम्) कक्षा के नीचे भाग को (धेहि) धर ॥७॥
Connotation: - पञ्च भूत निर्मित स्थूल शरीर में सूक्ष्म शरीरवाला आत्मा इन्द्रियों सहित रहता है। योगी विवेक दृष्टि द्वारा, आत्मा को स्थूल शरीर से पृथक् करे, और आत्मा के सूक्ष्म अवयवों को मन्त्र ७ व ८ के अनुसार स्थापित करके मन्त्र ९ के अनुसार मोक्ष फल प्राप्त करे ॥७॥
Footnote: ७−(पञ्चौदनम्) कनिन् युवृषितक्षि०। उ–० १।१५६। इति पचि व्यक्तीकरणे विस्तारे च-कनिन्। उन्देर्नलोपश्च। उ० २।७६। इति उन्दी क्लेदने-युच्। ओदनो मेघः-निघ० १।१०। ओदनमुदकदानं मेघम्-निरु० ६।३४। पञ्चभिर्भूतैः ओदनः सेचन यस्य तम् (पञ्चभिः) विस्तृताभिः (अङ्गुलिभिः) ऋतन्यञ्जि०। उ० ४।२। इति अङ्ग पदे=चेष्टायाम्-उलिप्रत्ययः। अङ्गुलयः कस्मादग्रगामिन्यो भवन्तीति वाग्रगालिन्यो भवन्तीति वाग्रकारिण्यो भवन्तीति वाङ्कना भवन्तीति वाञ्चना भवन्तीति वापि वाभ्यञ्जनादेव स्युः। निरु० ३।८। चेष्टाभिः (दर्व्या) वृदॄभ्यां विन् उ० ४।५३। इति दॄ विदारणे विन्, ङीप्। विदारणशक्त्या। वियोगशक्त्या (उद् हर) उद्धृत्य स्थापय (पञ्चधा) पञ्चप्रकारेण विभज्य (एतम्) आ-इण्-क्त। आगतं दृश्यमानं वा (ओदनम्) व्याख्यातम्। सेचनसमर्थं यद्वा, अन्नवद् वृद्धिकरम् आत्मानम् (प्राच्याम्) अ० ३।२६।१। स्वस्थानात् पूर्वस्याम्। स्वाभिमुखीभूतायाम् (दिशि) दिशायाम् (शिरः) अ० २।२५।२। मस्तकम् (अजस्य) म० १। अजनशीलस्य जीवात्मनः (धेहि) धर (दक्षिणायाम्) दक्षिणस्याम् (पार्श्वम्) स्पृशेः श्वण्शुनौ पृ च। उ० ५।२७। इति स्पृश संपर्के-श्वण्, धातोः पृ इत्यादेशः। कक्षयोरधोभागम् ॥