Go To Mantra
Viewed 105 times

अग्ने॒ प्रेहि॑ प्रथ॒मो दे॒वता॑नां॒ चक्षु॑र्दे॒वाना॑मु॒त मानु॑षाणाम्। इय॑क्षमाणा॒ भृगु॑भिः स॒जोषाः॒ स्व॑र्यन्तु॒ यज॑मानाः स्व॒स्ति ॥

Mantra Audio
Pad Path

अग्ने । प्र । इहि । प्रथम: । देवतानाम् । चक्षु: । देवानाम् । उत । मानुषाणाम् । इयक्षमाणा: । भृगुऽभि: । सऽजोषा: । स्व: । यन्तु । यजमाना: स्वस्ति ॥१४.५॥

Atharvaveda » Kand:4» Sukta:14» Paryayah:0» Mantra:5


PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्म की प्राप्ति का उपदेश।

Word-Meaning: - (अग्ने) हे ज्ञानस्वरूप परमात्मन् ! (प्रेहि) प्राप्त हो, तू (देवतानाम्) सब विद्वानों में (प्रथमः) पहिला, और (देवानाम्) सूर्य आदि लोकों का (उत) और भी (मानुषाणाम्) मनुष्य जातियों का (चक्षुः) नेत्र [के समान देखनेवाला] है। (इयक्षमाणाः) संगति चाहनेवाले, (भृगुभिः) परिपक्व विज्ञानी वेदज्ञ ब्राह्मणों के साथ (सजोषाः) एकसी प्रीति करते हुए, (यजमानाः) दानशील यजमान लोग (स्वः) सुखस्वरूप परब्रह्म और (स्वस्ति) कल्याण को (यन्तु) प्राप्त होवे ॥५॥
Connotation: - परमात्मा सबका आदि गुरु है, वही सबका साक्षी और नियन्ता है, पुरुषार्थी सदाचारी पुरुष विज्ञानी महात्माओं के सत्सङ्ग से ब्रह्मज्ञान की प्राप्ति करके परमगति प्राप्त करें ॥५॥ यह मन्त्र कुछ भेद से यजुर्वेद में है-अ० १७।६९ ॥
Footnote: ५−(अग्ने) हे सर्वज्ञ परमात्मन् ! (प्रेहि) प्रगच्छ। अस्मान् प्राप्नुहि (प्रथमः) आदिमः। मुख्यः (देवतानाम्) देव-स्वार्थे तल्। देवानां विदुषाम् (चक्षुः) नेत्रवद् द्रष्टा (देवानाम्) सूर्यादिलोकानाम् (उत) अपि च (मानुषाणाम्) मनोर्जातावञ्यतौ षुक् च। पा० ४।१।१६१। इति मनु-अञ्, षुगागमः। मनुष्यजातीनाम् (इयक्षमाणः) यजेः सन्। सन्यतः। पा० ७।४।७९। इति अभ्यासाकारस्य इकारः, यलोपश्छान्दसः। यियक्षमाणाः। यष्टुं संगन्तुमिच्छन्तः (भृगुभिः) अ० २।५।३। परिपक्वविज्ञानैः। अनूचानब्राह्मणैः। (सजोषाः) जुषी प्रीतिसेवनयोः-घञ्। समानस्य सभावः। समानप्रीतयः। प्रीतिमन्तः (स्वः) सुखस्वरूपं परब्रह्म (यन्तु) प्राप्नुवन्तु (यजमानाः) यज शानच्। दानशीलाः (स्वस्ति) कल्याणं च ॥