Go To Mantra
Viewed 116 times

अ॒जो ह्यग्नेरज॑निष्ट॒ शोका॒त्सो अ॑पश्यज्जनि॒तार॒मग्रे॑। तेन॑ दे॒वा दे॒वता॒मग्र॑ आय॒न्तेन॒ रोहा॑न्रुरुहु॒र्मेध्या॑सः ॥

Mantra Audio
Pad Path

अज: । हि । अग्ने: । अजनिष्ट । शोकात् । स: । अपश्यत् । जनितारम् । अग्ने । तेन । देवा: । देवताम् । अग्रे । आयन् । तेन । रोहान् । रुरुहु: । मेध्यास: ॥१४.१॥

Atharvaveda » Kand:4» Sukta:14» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्म की प्राप्ति का उपदेश।

Word-Meaning: - (अजः) अजन्मा, वा गतिशील, अज अर्थात् जीवात्मा (शोकात्) दीप्यमान (अग्नेः) सर्वव्यापक अग्नि अर्थात् परमेश्वर से (हि) ही (अजनिष्ट) प्रकट हुआ। (सः) उस (जीवात्मा) ने (अग्रे) पहिले से वर्तमान (जनितारम्) अपने जनक [परमात्मा] को (अपश्यत्) देखा। (तेन) उस [ज्ञान] से (देवाः) देवताओं ने (अग्रे) पहिले काल में (देवताम्) देवतापन (आयन्) पाया, (तेन) उससे ही (मेध्यासः) मेधावी वा पवित्र−स्वभाव पुरुष (रोहान्) चढ़ने योग्य पदों पर (रुरुहुः) चढ़े ॥१॥
Connotation: - मनुष्य आदि पिता जगदीश्वर से अपना शरीर और सामर्थ्य पाकर अपने जन्म और वंश का गौरव बढ़ाते हैं, जैसे पूर्वज महात्माओं ने परमात्मा की महिमा पहचानकर मोक्ष आदि उच्च पद पाये हैं ॥१॥ यह मन्त्र कुछ भेद से यजुर्वेद १३।५१। में है ॥
Footnote: १−(अजः) न जायते यः। नञ्+जन-ड। यद्वा, अज गतिक्षेपणयोः, अच्। अजन्मा। गतिशीलः। जीवात्मा-इति शब्दस्तोममहानिधिः (हि) निश्चयेन (अग्नेः) अगि गतौ-नि। सर्वव्यापकात् परमेश्वरात् (अजनिष्ट) प्रादुरभूत् (शोकात्) शुच शौचे, शोके च-घञ्। दीप्यमानात्-इति महीधरः य० १३।५१। (सः) अजः। जीवात्मा (अपश्यत्) दृष्टवान् (जनितारम्) जनयितारं स्वोत्पादकं प्रजापतिम् अग्निम् (अग्रे) सृष्टेः प्राग् वर्तमानम् (तेन) जनयितृज्ञानेन (देवाः) विद्वांसः। महात्मानः (देवताम्) तस्य भावस्त्वतलौ-पा० ६।१।१५९। इति तल्। देवभावम्। दिव्यगुणताम् (अग्रे) अस्मत्पूर्वकाले वर्त्तमानाः (आयन्) इण् गतौ-लङ्। प्राप्नुवन् (रोहान्) रुह-घञ्। आ रोहणीयान् सुखलोकान् (रुरुहुः) आरूढवन्तः (मेध्यासः) उगवादिभ्यो यत्। पा० ५।१।२। इति मेधा-यत्। असुगागमः। मेधायै हिताः। मेध्याः। मेधाविनः। पवित्राः पुरुषाः ॥