Go To Mantra
Viewed 133 times

आ त्वा॑गमं॒ शंता॑तिभि॒रथो॑ अरि॒ष्टता॑तिभिः। दक्षं॑ त उ॒ग्रमाभा॑रिषं॒ परा॒ यक्ष्मं॑ सुवामि ते ॥

Mantra Audio
Pad Path

आ । त्वा । अगमम् । शंतातिऽभि: । अथो इति । अरिष्टतातिऽभि: । दक्षम् । ते । उग्रम् । आ । अभारिषम् । परा । यक्ष्मम् । सुवामि । ते ॥१३.५॥

Atharvaveda » Kand:4» Sukta:13» Paryayah:0» Mantra:5


PANDIT KSHEMKARANDAS TRIVEDI

स्वास्थ्यरक्षा का उपदेश।

Word-Meaning: - [हे प्राणी !] (त्वा) तुझको (शन्तातिभिः) शान्तिदायक कर्मों से (अथो) और भी (अरिष्टतातिभिः) अहिंसाकारक कर्मों से (आगमम्) मैं प्राप्त हुआ हूँ। (ते) तेरे लिये (उग्रम्) उग्र (दक्षम्) वृद्धिकारक बल (आ अभारिषम्) मैं लाया हूँ, [उससे] (ते) तेरे (यक्ष्मम्) महारोग को (परा सुवामि) दूर हटाता हूँ ॥५॥
Connotation: - मनुष्य श्वास-प्रश्वास और पञ्च भूतों की यथावत् समता और ब्रह्मचर्य आदि शुभ कर्मों द्वारा दुष्कर्मों से बच कर बलवान् धनवान् और नीरोग होवे ॥५॥
Footnote: ५−(त्वा) त्वां प्राणिनम् (आगमम्) गमेर्लुङि रूपम्। आगतवान् प्राप्तवानस्मि (शंतातिभिः) शिवशमरिष्टस्य करे। पा० ४।४।१४३। इति करणेऽर्थे तातिल् प्रत्ययः। लिति। पा० ६।१।१९३। इति प्रत्ययपूर्व उदात्तः। शंकरैः सुखकरैः कर्मभिः (अथो) अपि च (अरिष्टतातिभिः) पूर्ववत् तातिल्, उदात्तत्वं च। अरिष्टम् अहिंसा। तत्करैः श्रेयोहेतुभिः कर्मभिः (दक्षम्) वृद्धिकरं बलम् (ते) तुभ्यम् (उग्रम्) उद्गूर्णम्। तीव्रम् (आ अभारिषम्) हस्य भकारः। आहार्षम्। आहृतवानस्मि। आनैषम् (यक्ष्मम्) महारोगम् (परा सुवामि) षू प्रेरणे, तौदादिकः। पराङ्मुखं प्रेरयामि (ते) तव ॥