Go To Mantra
Viewed 110 times

मध्य॑मे॒तद॑न॒डुहो॒ यत्रै॒ष वह॒ आहि॑तः। ए॒ताव॑दस्य प्रा॒चीनं॒ यावा॑न्प्र॒त्यङ्स॒माहि॑तः ॥

Mantra Audio
Pad Path

मध्यम् । एतत् । अनडुह: । यत्र । एष: । वह: । आऽहित: । एतावत् । अस्य । प्राचीनम् । यावान् । प्रत्यङ् । सम्ऽआहित: ॥११.८॥

Atharvaveda » Kand:4» Sukta:11» Paryayah:0» Mantra:8


PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्मविद्या और पुरुषार्थ का उपदेश।

Word-Meaning: - (अनडुहः) जीविका पहुँचानेवाले परमात्मा का (एतत्) यह [स्थान वा काल] (मध्यम्) मध्य है (यत्र) जहाँ (एषः) यह (वहः) [आकर्षित] भार (आहितः) धरा हुआ है। (अस्य) सर्वव्यापक वा सर्वरक्षक विष्णु का (एतावत्) उतना ही (प्राचीनम्) प्राचीन काल वा देश है, (यावान्) जितना (प्रत्यङ्) आगामी काल वा देश (समाहितः) सिद्ध है ॥८॥
Connotation: - परमेश्वर की सर्वव्यापकता और नित्यता को विचार कर मनुष्य सावधानी से प्रयत्न करता रहे ॥८॥
Footnote: ८−(मध्यम्) अ० १।३३।२। द्वयोरन्तरालम्। गोलस्य। मध्यस्थानम् (एतत्) दृश्यमानं सर्वम् (अनडुहः) म० १। जीवनप्रापकस्य परमेश्वरस्य (यत्र) यस्मिन् स्थाने (एषः) अयम् (वहः) वहनीयः पदार्थो भारो वा (आहितः) धा-क्त। स्थापितः (एतावत्) एतत्परिमाणयुक्तम् (अस्य) अतति सर्वं व्याप्नोतीति अः। अत सातत्यगमने-ड। यद्वा अवति रक्षतीति अव रक्षणे ड। अः विष्णुः। सर्वव्यापकस्य सर्वरक्षकस्य वा परमेश्वरस्य (प्राचीनम्) विभाषाञ्चतेरदिक्स्त्रियाम्। पा० ५।४।८। इति स्वार्थे खः। खस्य ईनादेशः। प्राक् पूर्वः कालो देशो वा (यावान्) यत्परिमाणवान् (प्रत्यङ्)। प्रति+अञ्चु-क्विन्। पश्चिमकालः। पश्चिमदेशः (समाहितः) निष्पन्नः ॥