Go To Mantra
Viewed 95 times

यस्य॑ नेशे य॒ज्ञप॑ति॒र्न य॒ज्ञो नास्य॑ दातेशे॒ न प्र॑तिग्रही॒ता। यो वि॑श्व॒जिद्वि॑श्व॒भृद्वि॒श्वक॑र्मा घ॒र्मं नो॑ ब्रूत यत॒मश्चतु॑ष्पात् ॥

Mantra Audio
Pad Path

यस्य । न । ईशे । यज्ञऽपति: । न । यज्ञ: । न । अस्य । दाता । ईशे । न । प्रतिऽग्रहीता । य: । विश्वऽजित् । विश्वऽभृत् । विश्वऽकर्मा । घर्मम् । न: । ब्रूत । यतम: । चतु:ऽपात् ॥११.५॥

Atharvaveda » Kand:4» Sukta:11» Paryayah:0» Mantra:5


PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्मविद्या और पुरुषार्थ का उपदेश।

Word-Meaning: - (न) न तो (यज्ञपतिः) संगतिकर्ता पुरुष, और (न) न (यज्ञः) संगतिकर्म (यस्य) जिस [परमेश्वर] का (ईशे=ईष्टे) ईश्वर है, (न) न तो (दाता) दाता, (न) न (प्रतिग्रहीता) ग्रहणकर्ता (अस्य) इस का (ईशे) ईश्वर है, (यः) जो (विश्वजित्) सबका जीतनेवाला, (विश्वभृत्) सबका पोषण करनेवाला, (विश्वकर्मा) सब काम करनेवाला, और (यतमः) जौन सा (चतुष्पात्) चारो दिशाओं में स्थिति वा गतिवाला है, (घर्मम्) उस प्रकाशमान सूर्यसदृश परमात्मा को (नः) हमें, [हे ऋषियो !] (ब्रूत) बताओ ॥५॥
Connotation: - उस परमात्मा का शासक कोई अन्य नहीं है, वह सर्वशक्तिमान् सर्वरक्षक, सर्वव्यापक प्रकाशस्वरूप है। उसकी उपासना और अन्वेषणा से सब मनुष्य अपनी उन्नति करें ॥५॥
Footnote: ५−(यस्य) घर्मस्य। अधीगर्थदयेशां कर्मणि। पा० २।३।५२। इति कर्मणि षष्ठी (न) नहि (ईशे) लोपस्त आत्मनेपदेषु। पा० ७।१।४१। ईष्टे। शासिता भवति (यज्ञपतिः) यजमानः सङ्गतिकर्ता (यज्ञः) संगतिक्रिया (दाता) दानशीलः (प्रतिग्रहीता) दानस्य स्वीकर्ता (यः) अनड्वान्। घर्मः (विश्वजित्) विश्वस्य जेता (विश्वभृत्) सर्वस्य भर्ता पोषयिता च (विश्वकर्मा) विश्वं सर्वं कर्म कर्तव्यं व्यापारो यस्य। सर्वव्यापारकर्ता (घर्मम्) म० ३। तं दीप्यमानम्। आदित्यरूपम्। अनड्वाहं परमात्मानम् (नः) अस्मभ्यम् (ब्रूत) कथयत। उपदिशत (यतमः) वा बहूनां जातिपरिप्रश्ने डतमच्। पा० ५।३।९३। इति यत्-डतमच्। बहूनां मध्ये निर्द्धारित एकः। एषां मध्ये यः (चतुष्पात्) पद स्थैर्ये, गतौ च-घञ्। इति पादः। संख्यासुपूर्वस्य। पा० ५।४।१४०। इति बहुव्रीहेः पादान्तस्य लोपः। चतसृषु दिक्षु पादः स्थितिर्गतिर्वा यस्य सः ॥