Go To Mantra
Viewed 93 times

इन्द्रो॑ जा॒तो म॑नु॒ष्ये॑ष्व॒न्तर्घ॒र्मस्त॒प्तश्च॑रति॒ शोशु॑चानः। सु॑प्र॒जाः सन्त्स उ॑दा॒रे न स॑र्ष॒द्यो नाश्नी॒याद॑न॒डुहो॑ विजा॒नन् ॥

Mantra Audio
Pad Path

इन्द्र: । जात: । मनुष्येषु । अन्त: । घर्म: । तप्त: । चरति । शोशुचान: । सुऽप्रजा: । सन् । स: । उत्ऽआरे । न । सर्षत् । य: । न । अश्नीयात् । अनडुह: । विऽजानन् ॥११.३॥

Atharvaveda » Kand:4» Sukta:11» Paryayah:0» Mantra:3


PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्मविद्या और पुरुषार्थ का उपदेश।

Word-Meaning: - (तप्तः) तपते हुए (घर्मः) सूर्य के समान (शोशुचानः) अत्यन्त प्रकाशमान (इन्द्रः) परमेश्वर (मनुष्येषु अन्तः) मननशील मनुष्यों के भीतर (जातः) प्रकट होकर (चरति) विचरता है। (यः) जो पुरुष (अनडुहः) प्राण और जीविका पहुँचानेवाले परमेश्वर का (न विजानन्) विज्ञान न रखता हुआ (अश्नीयात्) भोजन करे, (सः) वह (सन्) विद्यमान पुरुष (उदारे) बड़े पद पर वर्तमान (सुप्रजाः) उत्तम प्रजा गणों को (न सर्षत्) न पावे ॥३॥
Connotation: - परमात्मा मनुष्यादि प्राणियों में निःसन्देह प्रकाशमान है। जो अज्ञानी पुरुष उसकी महिमा को नहीं जानता, वह दुष्ट आप, और उसके साथी प्रजा गण महा दुःख भोगते हैं ॥३॥
Footnote: ३−(इन्द्रः) परमैश्वर्यवान् (जातः) प्रादुर्भूतः सन् (मनुष्येषु) अ० ३।४।६। मननशीलेषु (अन्तः) मध्ये (घर्मः) अ० ४।१।२। दीप्यमानः। घृणिः सूर्य इव। घर्मः, अहर्नाम-निघ० १।९। (तप्तः) तापयुक्तः (चरति) संचरति। वर्तते (शोशुचानः) शुच दीप्तौ यङन्तात् शानच्। देदीप्यमानः (सुप्रजाः) उत्तमान् पुत्रपौत्रभृत्यादीन् (सन्) अस भुवि-शतृ। विद्यमानः पुरुषः (सः) (उदारे) उत्+आङ्+रा दानादानयोः-क। यद्वा। उत्+ऋ गतिप्रापणयोः। घञ्। महति पदे। उदारो दातृमहतोः, इत्यमरः-२३।१९२। (न) नहि (सर्षत्) सृ गतौ लेटि अडागमः, सिप् च। प्राप्नुयात् (यः) पुरुषः (न) नहि (अश्नीयात्) अश भोजने-विधिलिङ्। भक्षयेत् (अनडुहः) म० १। प्राणस्य जीवनस्य च वाहकस्य परमेश्वरस्य (विजानन्) विशेषेण ज्ञानं प्राप्नुवन् ॥