Go To Mantra
Viewed 115 times

अ॑न॒ड्वानिन्द्रः॒ स प॒शुभ्यो॒ वि च॑ष्टे त्र॒यां छ॒क्रो वि मि॑मीते॒ अध्व॑नः। भू॒तं भ॑वि॒ष्यद्भुव॑ना॒ दुहा॑नः॒ सर्वा॑ दे॒वानां॑ चरति व्र॒तानि॑ ॥

Mantra Audio
Pad Path

अनड्वान् । इन्द्र: । स: । पशुऽभ्य: । वि । चष्टे । त्रयान् । शक्र: । वि । मिमीते । अध्वन: । भूतम् । भविष्यत् । भुवना । दुहान: । सर्वा । देवानाम् । चरति । व्रतानि ॥११.२॥

Atharvaveda » Kand:4» Sukta:11» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्मविद्या और पुरुषार्थ का उपदेश।

Word-Meaning: - (सः) वह (इन्द्रः) परम ऐश्वर्यवाला (अनड्वान्) प्राण और जीविका पहुँचानेवाला परमेश्वर (पशुभ्यः) व्यक्त वाणीवाले और अव्यक्त वाणी के जीवों के लिये (वि) विविध प्रकार से (चष्टे) देखता है (शक्रः) वह समर्थ परमात्मा (त्रयान्) तीन अवयव [भूमि सूर्य और अन्तरिक्ष] वाले (अध्वनः) मार्गों को (वि) विशेष करके (मिमीते) नापता है। (भूतम्) भूत, (भविष्यत्) भविष्यत् और (भुवना=०-नि) लोकों वा वर्त्तमान वस्तुओं को (दुहानः) परिपूर्ण करता हुआ वह (देवानाम्) इन्द्रियों के (सर्वा व्रतानि) सब कामों को (चरति) सिद्ध करता है ॥२॥
Connotation: - परमेश्वर संसार के कर्मों का साक्षी होकर तीनों लोकों और तीनों कालों की सुधि रखता, और देखना आदि सब काम करता है ॥२॥
Footnote: २−(अनड्वान्) म० १। अनसः प्राणस्य जीवनस्य च वाहकः (इन्द्रः) परमैश्वर्यवान् (सः) प्रसिद्धः (पशुभ्यः) अ० २।२६।१। व्यक्तवाग्भ्योऽव्यक्तवाग्भ्यो जीवेभ्यः-निरु० ११।२९। तेषां हिताय (वि) विविधम् (चष्टे) चक्षिङ् व्यक्तायां वाचि दर्शने च। चष्टे पश्यतिकर्मा-निघ० ३।११। पश्यति कथयति वा (त्रयान्) संख्याया अवयवे तयप्। पा० ५।२।४२। इति तयप्। द्वित्रिभ्यां तयस्यायज्वा। पा० ५।२।४३। इति तयस्य अयच्। त्र्यवयवान् (शक्रः) शक्तः समर्थः (वि) विशेषेण (मिमीते) माङ् माने शब्दे च। भृञामित्। पा० ७।४।७६। इत्यभ्यासस्य इत्वम्। परिमितान् करोति (अध्वनः) अ० १।४।१। मार्गान् (भूतम्) गतम् (भविष्यत्) अनागतम् (भुवना) भुवनानि। लोकान् वर्तमानानि वस्तूनि वा (दुहानः) दुह प्रपूरणे-शानच्। प्रपूरयन् (सर्वा) सर्वाणि (देवानाम्) इन्द्रियाण्यत्र देवा उच्यन्ते-निरु० १३।११। इन्द्रियाणाम् (व्रतानि) कर्माणि (चरति) करोति ॥