Go To Mantra
Viewed 140 times

अ॑न॒ड्वान्दा॑धार पृथि॒वीमु॒त द्याम॑न॒ड्वान्दा॑धारो॒र्वन्तरि॑क्षम्। अ॑न॒ड्वान्दा॑धार प्र॒दिशः॒ षडु॒र्वीर॑न॒ड्वान्विश्वं॒ भुव॑न॒मा वि॑वेश ॥

Mantra Audio
Pad Path

अनड्वान् । दाधार । पृथिवीम् । उत । द्याम् । अनड्वान् । दाधार । उरु । अन्तरिक्षम् । अनड्वान । दाधार । प्रऽदिश: । षट् । उर्वी: । अनड्वान् । विश्वम् । भुवनम् । आ । विवेश ॥११.१॥

Atharvaveda » Kand:4» Sukta:11» Paryayah:0» Mantra:1


PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्मविद्या और पुरुषार्थ का उपदेश।

Word-Meaning: - (अनड्वान्) प्राण और जीविका पहुँचानेवाले परमेश्वर ने (पृथिवीम्) पृथिवी (उत) और (द्याम्) सूर्य को (दाधार) धारण किया था। (अनड्वान्) प्राण और जीविका पहुँचानेवाले परमेश्वर ने (उरु) चौड़े (अन्तरिक्षम्) मध्यलोक वा आकाश को (दाधार) धारण किया था। (अनड्वान्) प्राण और जीविका पहुँचानेवाले परमेश्वर ने (षट्) पूर्वादि, नीचे और उपकारी छह (उर्वीः) चौड़ी (प्रदिशः) महादिशाओं को (दाधार) धारण किया था। (अनड्वान्) प्राण और जीविका पहुँचानेवाले परमेश्वर ने (विश्वं भुवनम्) सब जगत् में (आ विवेश) सब प्रकार प्रवेश किया था ॥१॥
Connotation: - पुनरुक्ति निश्चयद्योतक है, अर्थात् एक परमात्मा ही सब जीवनसाधन देकर सब पदार्थों को रचता है, सब मनुष्य भक्तिपूर्वक उसकी अपार महिमा को विचार कर सदा पुरुषार्थ करें ॥१॥
Footnote: १−(अनड्वान्) सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति अन प्राणने-असुन्। अनो वायुरनितेरपि वोपमार्थे स्यादनस इव शकटादिव, अनः शकटमानद्धमस्मिंश्चीवरमनितेर्वा स्याज्जीवनकर्मण उपजीवन्त्येनन्मेघोऽप्यन एतस्मादेव-निरु० ११।४७। अनः प्राणं जीवनं वायुं मेघं शकटं वहति वा गमयतीति विग्रहे। क्विप् च। पा० ३।२।७६। इति अनसि वहेः क्विप् अनसो डश्च। वचिस्वपियजादीनां किति। पा० ६।१।१५। इति यजादित्वात् संप्रसारणम्। अनडुह् स् इति स्थिते। आम्नुम्सुलोपेषु कृतेषु संयोगान्तलोपेन हकारलोपः। अनसः प्राणस्य जीवनस्य च वाहकः प्रापकः परमेश्वरः (दाधार) तुजादित्वाद् अभ्यासदीर्घत्वम्। धृतवान् (पृथिवीम्) भूमिम् (उत) अपि च (द्याम्) प्रकाशमानं सूर्यम् (उरु) विस्तीर्णम् (अन्तरिक्षम्) मध्यलोकम् (प्रदिशः) महादिशाः (षट्) प्राच्यादिनीचोच्चषट्संख्याकाः (उर्वी) विस्तीर्णाः (विश्वं भुवनम्) सर्वं जगत् (आ विवेश) सर्वतः प्रविष्टवान् ॥