Go To Mantra
Viewed 92 times

स॑मु॒द्राज्जा॒तो म॒णिर्वृ॒त्राज्जा॒तो दि॑वाक॒रः। सो अ॒स्मान्त्स॒र्वतः॑ पातु हे॒त्या दे॑वासु॒रेभ्यः॑ ॥

Mantra Audio
Pad Path

समुद्रात् । जात: । मणि: । वृत्रात् । जात: । दिवाऽकर: । स: । अस्मान् । सर्वत: । पातु । हेत्या: । देवऽअसुरेभ्य: ॥१०.५॥

Atharvaveda » Kand:4» Sukta:10» Paryayah:0» Mantra:5


PANDIT KSHEMKARANDAS TRIVEDI

विघ्नों के हटाने के लिये उपदेश।

Word-Meaning: - (वृत्रात्) ढकनेवाले मेघ से (जातः) प्रकट हुए (दिवाकरः) सूर्य [के समान] (समुद्रात्) अन्तरिक्ष से (जातः) प्रकट हुआ (मणिः) प्रशंसायोग्य (सः) दुःखनाशक, विष्णु (अस्मान्) हमको (सर्वतः) सब ओर से (हेत्या) अपने वज्र द्वारा (देवासुरेभ्यः) देवताओं के गिरानेवाले शत्रुओं से (पातु) बचावे ॥५॥
Connotation: - जैसे सूर्य मेघमण्डल से निकल कर देदीप्यमान होता है, इसी प्रकार परमात्मा अन्तरिक्षस्थ प्रत्येक पदार्थ से विज्ञानियों को प्रकाशमान दीखता है। वह जगदीश्वर दुष्टों को दण्ड और शिष्टों को आनन्द देता है ॥५॥
Footnote: ५−(समुद्रात्) अन्तरिक्षात्। अन्तरिक्षस्थलोकजातात् (जातः) प्रादुर्भूतः। ज्ञातः (मणिः) म० ४। प्रशंसनीयः परमेश्वरः (वृत्रात्) अ० २।५।३। आवरकाद् मेघात् (दिवाकरः) दिवाविभानिशा०। पा० ३।२।२१। इति दिवा+कृञ् करणे-ट। दिवा दिनं करोतीति। सूर्यः। लुप्तोपममेतत्। तद्वत् प्रभातिशययुक्तः परमेश्वरः (सः) म० १। दुःखनाशक ईश्वरः (अस्मान्) वेदानुगामिनः पुरुषान् (सर्वतः) सर्वस्मादुपद्रवात् (पातु) रक्षतु (हेत्या) अ० १।१३।३। वज्रेण-निघ० ३।२०। (देवासुरेभ्यः) असेरुरन्। उ० १।४२। इति असु क्षेपणे-उरन्। अस्यति क्षिपति देवान् सोऽसुरः। देवानां धर्मात्मनाम् असुरेभ्यः क्षेपकेभ्यः सकाशात् ॥