Go To Mantra

योऽथ॑र्वाणं पि॒तरं॑ दे॒वब॑न्धुं॒ बृह॒स्पतिं॒ नम॒साव॑ च॒ गच्छा॑त्। त्वं विश्वे॑षां जनि॒ता यथासः॑ क॒विर्दे॒वो न दभा॑यत्स्व॒धावा॑न् ॥

Mantra Audio
Pad Path

य: । अथर्वाणम् । पितरम् । देवऽबन्धुम् । बृहस्पतिम् । नमसा । अव । च । गच्छात् । त्वम् । विश्वेषाम् । जनिता । यथा । अस: । कवि: । देव: । न । दभायत् । स्वधाऽवान् ॥१.७॥

Atharvaveda » Kand:4» Sukta:1» Paryayah:0» Mantra:7


Reads 105 times

PANDIT KSHEMKARANDAS TRIVEDI

सृष्टि विद्या से ब्रह्म का विचार।

Word-Meaning: - (यः) गतिवाला, पुरुषार्थी पुरुष (अथर्वाणम्) निश्चल, (पितरम्) पिता, (देवबन्धुम्) विद्वानों वा सूर्यादि दिव्य लोकों का बन्धु वा नियामक, (बृहस्पतिम्) बड़े बड़ों के स्वामी परमेश्वर को (नमसा) नमस्कार के साथ (च) निश्चय करके (अव गच्छात्) पहिचाने। [हे परमेश्वर !] (त्वम्) तू (विश्वेषाम्) सब [सुखों] का (जनिता) उत्पादक (असः) हो, (यथा) क्योंकि (कविः) मेधावी, (स्वधावान्) अन्नवान् वा स्वयं धारण सामर्थ्यवाला (देवः) परमेश्वर (न) कभी नहीं (दभायत्) ठगता है ॥७॥
Connotation: - मनुष्य विश्वास करके सत्य स्वभाव परमेश्वर से प्रार्थना करेंहे ईश्वर आप दुःखों से मुक्ति दाता हैं और आप कभी किसी को नहीं सताते और पुरुषार्थ से पाप कर्मों को त्यागकर सुख प्राप्त करें ॥७॥
Footnote: ७−(यः) यातीति यः। या गतौ-ड। याता। गतिवान्। उद्योगी पुरुषः (अथर्वाणम्) अथर्वाणोऽथर्वन्तस्थर्वतिश्चरतिकर्मा तत्प्रतिषेधः-निरु० ११।१८। स्नामदिपद्यर्त्तिपॄशकिभ्यो वनिप्। उ० ४।११३। इति अ+थर्व चरणे=गतौ-वनिप्। वकारलोपो विकल्पेन। न थर्वति न चरतीति अथर्वा निश्चलः परमेश्वरः। यद्वा। अथ+ऋ गतौ-वनिप्। अथ लोकमङ्गलाय ऋच्छति गच्छति व्याप्नोतीति अथर्वा। निश्चलं मङ्गलाय व्यापकं वा परमात्मानम् (पितरम्) अ० १।२।१। पातारं पालयितारं वा-निरु० ४।१९। (देवबन्धुम्) देवानां विदुषां सूर्यादिदिव्यलोकानां वा बन्धुं हितकरं बन्धकं नियामकं वा (बृहस्पतिम्) बृहतां लोकानां रक्षकम् (नमसा) नमस्कारेण। कराभ्यां शिरः संयोगविशेषेण स्वापकर्षसूचकेन व्यापारभेदेन (च) अवधारणे (अव गच्छात्) अवगच्छेत् जानीयात् (त्वम्) अथर्वा वेनो वा परमेश्वरः (विश्वेषाम्) सर्वेषां सुखानाम् (जनिता) अ० २।१।३। जनयिता (यथा) यस्मात् कारणात् (असः) भवेः (कविः) सर्वधातुभ्य इन्। उ० ४।११८। इति कवृ स्तुतौ वर्णे च-इन्। यद्वा अच इः। उ० ४।१३९। इति कु शब्दे-इ। कविः क्रान्तदर्शनो भवति कवतेर्वा निरु० १२।१३। अतीतानागतविप्रकृष्टविषयं युग्पत् ज्ञानं यस्य स क्रान्तदर्शनः-इति देवराजयज्वा निरुक्तटीकाकारः-निघ० ३।१५। मेधावी-निघ० ३।१५। ब्रह्मा पण्डितः। (देवः) दीप्यमानः (न) नहि (दभायत्) दम्भु दम्भे=वञ्चने। छन्दसि शायजपि। पा० ३।१।८४। इति श्नः शायच्। इकारलोपश्च। दभ्नोति वञ्चति (स्वधावान्) अन्नवान्। स्वयं धारणवान् ॥