Go To Mantra

इ॒यं पित्र्या॒ राष्ट्र्ये॒त्वग्रे॑ प्रथ॒माय॑ ज॒नुषे॑ भुवने॒ष्ठाः। तस्मा॑ ए॒तं सु॒रुचं॑ ह्वा॒रम॑ह्यं घ॒र्मं श्री॑णन्तु प्रथ॒माय॑ धा॒स्यवे॑ ॥

Mantra Audio
Pad Path

इयम् । पित्र्या । राष्ट्री । एतु । अग्रे । प्रथमाय । जनुषे । भुवनेऽस्था: । तस्मै । एतम् । सुऽरुचम् । ह्वारम् । अह्यम् । घर्मम् । श्रीणन्तु । प्रथमाय । धास्यवे ॥१.२॥

Atharvaveda » Kand:4» Sukta:1» Paryayah:0» Mantra:2


Reads 67 times

PANDIT KSHEMKARANDAS TRIVEDI

सृष्टि विद्या से ब्रह्म का विचार।

Word-Meaning: - (पित्र्या) पिता [जगत् पिता परमेश्वर] से आई हुई, (भुवनेष्ठाः) सब जगत् में ठहरी हुई (इयम्) यह (राष्ट्री) राजराजेश्वरी शक्ति [वेद वाणी] (प्रथमाय) सबसे उत्तम (जनुषे) जन्म के लिये (अग्रे) हमारे आगे (एतु) आवे, [अर्थात्](तस्मै) उस (प्रथमाय) सबसे ऊपर विराजमान (धास्यवे) संसार का धारण पोषण चाहनेवाले परमात्मा के लिए (एतम्) इस (सुरुचम्) बड़े रुचिर (ह्वारम्) अनिष्ट को झुका देनेवाले (अह्यम्) प्राप्ति के योग्य, वा प्रति दिन वर्तमान (घर्मम्) यज्ञ को (श्रीणन्तु) सब लोग परिपक्व करें ॥२॥
Connotation: - जैसे पैतृक धन सब सन्तानों को यथावत् मिलता है, वैसे ही जगत् पिता परमेश्वर की सर्वव्यापिनी सर्वनियन्त्री यह वेदवाणीरूप शक्ति सबके हृदय में वसे कि सब मनुष्य अपना यज्ञ अर्थात् पुरुषार्थ परमात्मा को समर्पण करें, जिससे मनुष्य जन्म सफल होवे ॥२॥
Footnote: २−(इयम्) परिदृश्यमाना (पित्र्या) पितुर्यच्च। पा० ४।३।७९। इति पितृ-यत्, टाप्। पितृसकाशाद् आगता। पैतृका। (राष्ट्री) राजतिः, ऐश्वर्यकर्मा-निरु–० २।२१। सर्वधातुभ्यः ष्ट्रन्। उ० ४।१५९। इति राजृ दीप्तौ, ऐश्वर्ये-ष्ट्रन्। व्रश्चभ्रस्ज०। पा० ८।३।३६। इति षत्वम्। षित्त्वात् ङीप्। पा० ४।१।४१। राष्ट्री, ईश्वरनामसु, निघ० २।२२। राज्ञी। ईश्वरौ। सर्वजगद्व्यवहारस्य नियन्त्री शक्तिः (एतु) गच्छतु। प्राप्नोतु। (अग्रे) अभिमुखम् (प्रथमाय) म० १। प्रख्याताय। प्रधानाय, (जनुषे) जनेरुसिः। उ० २।११५। इति जनी प्रादुर्भावे-उसि। जन्मने। जीवनाय (भुवनेष्ठाः) अ० २।१।४। सर्वलोके स्थिता व्याप्ता (तस्मै) वेनाय (एतम्) समीपस्थम् (सुरुचम्) म० १। सुष्ठु रोचमानम् (ह्वारम्) ह्वृ कौटिल्ये ण्यन्तात् पचाद्यच्। अनिष्टस्य कुटिलीकारकम्। (अह्यम्) अहि गतौ-ण्यत्। संज्ञापूर्वको विधिरनित्यः-इति परिभाषया वृद्धेरभावः। गन्तव्यं प्राप्यम्। यद्वा। भवे छन्दसि। पा० ४।४।११०। इति अहन्-यत्। नस्तद्धिते। पा० ६।४।१४४। इति टिलोपः। अहनि भवम् (घर्मम्) घर्मग्रीष्मौ। उ० १।१४९। इति घृ सेचनदीप्त्योः-मक्। आतपम्। ग्रीष्मम्। स्वेदम्। यज्ञम्, निघ–० ३।१७ (श्रीणन्तु) श्रीञ् पाके। पचन्तु। पक्वं कुर्वन्तु। संस्कुर्वन्तु (धास्यवे) अ० २।१।४। जगतो धारणपोषणेच्छवे ॥