Viewed 84 times
एक॑शतं॒ विष्क॑न्धानि॒ विष्ठि॑ता पृथि॒वीमनु॑। तेषां॒ त्वामग्र॒ उज्ज॑हरुर्म॒णिं वि॑ष्कन्ध॒दूष॑णम् ॥
Pad Path
एकऽशतम् । विऽस्कन्धानि । विऽस्थिता । पृथिवीम् । अनु । तेषाम् । त्वाम् । अग्रे । उत् । जहरु: । मणिम् । विस्कन्धऽदूषणम् ॥९.६॥
Atharvaveda » Kand:3» Sukta:9» Paryayah:0» Mantra:6
PANDIT KSHEMKARANDAS TRIVEDI
विघ्न की शान्ति के लिए उपदेश।
Word-Meaning: - (एकशतम्) एक सौ एक (विष्कन्धानि) विघ्न (पृथिवीम् अनु) पृथिवी पर (विष्ठिता=०−तानि) फैले हुए हैं [हे शूर !] (तेषाम् अग्रे) उनके सन्मुख (विष्कन्धदूषणम्) विघ्ननाशक (मणिम्) प्रशंसनीय मणिरूप (त्वाम्) तुझको उन्होंने [देवताओं ने] (उत् जहरुः) ऊँचा उठाया है ॥६॥
Connotation: - प्रतिष्ठित लोग राजा को एकशतम् अनेक विघ्नों से रक्षा के लिए अग्रगामी बनाते हैं, इसलिये राजा अपने धर्म का यथार्थ पालन करे ॥६॥
Footnote: ६−(एकशतम्)। एकं च शतं चैकशतम्। एकोत्तरशतसंख्यानि। अपरिमितानि। (विष्कन्धानि)। म० २। विघ्नाः। (विष्ठिता)। शेर्लोपः। विविधं स्थितानि। (पृथिवीम् अनु)। अनुर्लक्षणे। पा० १।४।८४। इत्यनोः कर्मप्रवचनीयत्वम्। कर्मप्रवचनीययुक्ते द्वितीया। पा० २।३।८। इति द्वितीया। भूमिं प्रति। (तेषाम्)। विघ्नानाम्। (अग्रे)। पूर्वम्। (उज्जहरुः)। हृञ् हरणे-लिट् उज्जह्रुः। उद्धृतवन्तः। उन्नीवन्तः। (मणिम्)। मण शब्दे-इन्। शब्दनीयम्। स्तुत्यम्। प्रशस्यम् मणिरूपं वा। (विष्कन्धदूषणम्)। विघ्ननाशकम् ॥
