Go To Mantra
Viewed 86 times

धा॒ता रा॒तिः स॑वि॒तेदं जु॑षन्ता॒मिन्द्र॒स्त्वष्टा॒ प्रति॑ हर्यन्तु मे॒ वचः॑। हु॒वे दे॒वीमदि॑तिं॒ शूर॑पुत्रां सजा॒तानां॑ मध्यमे॒ष्ठा यथासा॑नि ॥

Mantra Audio
Pad Path

धाता । राति: । सविता । इदम् । जुषन्ताम् । इन्द्र: । त्वष्टा । प्रति । हर्यन्तु । मे । वच: । हुवे । देवीम् । अदितिम् । शूरऽपुत्राम् । सऽजातानाम् । मध्यमेऽस्था: । यथा । असानि ॥८.२॥

Atharvaveda » Kand:3» Sukta:8» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

प्रीति उत्पन्न करने का उपदेश।

Word-Meaning: - (धाता) पोषणकर्ता, (रातिः) दानकर्ता, (सविता) सर्वप्रेरक, (इन्द्रः) बड़ा ऐश्वर्यवान् और (त्वष्टा) देवशिल्पी वा विश्वकर्मा [यह सब पुरुष] (मे) मेरे (इदम्) परम ऐश्वर्य के कारण (वचः) वचन को (जुषन्ताम्) विचारें और (प्रति) प्रत्यक्षरूप से (हर्यन्तु) स्वीकार करें। (देवीम्) दिव्य गुणवाली, (शूरपुत्राम्) शूर पुत्रोंवाली (अदितिम्) अदान वा अखण्ड व्रतवाली देवमाता [चतुर स्त्री वा विद्या] को (हुवे) मैं आवाहन करता हूँ, (यथा) जिससे मैं (सजातानाम्) अपने समान जन्मवाले भाई-बन्धुओं में (मध्यमेष्ठाः) प्रधान मध्यस्थ [mediator] होकर (असानि) रहूँ ॥२॥
Connotation: - राजा बड़े-बड़े गुणवान् पुरुषों, बड़ी-बड़ी गुणवती स्त्रियों और विद्या की प्रतिष्ठा बढ़ावे, जिससे वह उनके सहाय से अपनी उन्नति करे ॥२॥
Footnote: २−(धाता)। धारकः। पोषकः। (रातिः)। रा दाने-कर्तरि क्तिच्। दानशीलः। (सविता)। सर्वप्रेरकः। (इदम्)। इन्देः कमिन्नलोपश्च। उ० ४।१५७। इति इदि परमैश्वर्ये-कमिन्, न लोपः। परमैश्वर्यकारणम्। (जुषन्ताम्)। जुष तर्के, जुषी प्रीतिसेवनयोः। तर्कयन्तु। विचारयन्तु सेवन्ताम्। (इन्द्रः)। परमैश्वर्यवान्। (त्वष्टा)। अ० २।५।६। देवशिल्पी विश्वकर्मा। (प्रति)। प्रत्यक्षम्। (हर्यन्तु)। हर्य गतिकान्त्योः। कामयन्ताम् सादरं शृण्वन्तु। स्वीकुर्वन्तु। (मे)। मदीयम्। (वचः)। वच कथने, संदेशे च-असुन्। वचनम्। (हुवे)। ह्वेङ् आह्वाने। आह्वयामि। (देवीम्)। दानादिगुणयुक्ताम्। दिव्यगुणवतीम्। (अदितिम्)। अ० २।२८।५। अखण्डव्रताम्। अदीनां देवमातरम्। सुलक्षणां स्त्रियं विद्यां वा (शूरपुत्राम्)। शूरा विक्रान्ताः शौर्योपेताः पुत्रा यस्याः सा तथोक्ता ताम्। वीरुपुत्रवतीम्। (सजातानाम्)। समानजन्मनाम्। बन्धूनाम्। (मध्यमेष्ठाः)। अ० २।६।४। मध्यम+ष्ठा गतिनिवृत्तौ-विच्। सप्तम्या अलुक्। मध्यभवेषु प्रधानेषु स्थिताः। (यथा)। यस्मात् कारणात्। (असानि)। असेर्लोटि। अहं भवानि ॥