Viewed 79 times
यथा॑श्वत्थ वानस्प॒त्याना॒रोह॑न्कृणु॒षेऽध॑रान्। ए॒वा मे॒ शत्रो॑र्मू॒र्धानं॒ विष्व॑ग्भिन्द्धि॒ सह॑स्व च ॥
Pad Path
यथा । अश्वत्थ । वानस्पत्यान् । आऽरोहन् । कृणुषे । अधरान् । एव । मे । शत्रो: । मूर्धानम् । विष्वक् । भिन्ध्दि । सहस्व । च ॥६.६॥
Atharvaveda » Kand:3» Sukta:6» Paryayah:0» Mantra:6
PANDIT KSHEMKARANDAS TRIVEDI
उत्साह बढ़ाने के लिये उपदेश।
Word-Meaning: - (यथा) जिस प्रकार से (अश्वत्थ) हे शूरों में ठहरनेवाले अश्वत्थामा राजन् ! [वा पीपलवृक्ष !] (वानस्पत्यान्) सेवकों वा सेवनीय गणों के रक्षक [आप] से सम्बन्धवाले पुरुषों [वा वृक्षसमूहों] पर (आरोहन्) ऊँचा होकर (अधरान्) नीचे (कृणुवे) तू करता है (एव) वैसे ही (मे शत्रोः) मेरे शत्रु के (मूर्धानम्) मस्तक को (विष्वक्) सब विधि से (भिन्धि) तोड़ दे (च) और (सहस्व) जीत ले ॥६॥
Connotation: - समस्त और प्रत्येक प्रजागण समर्थ शूरवीर पुरुष वा सद्वैद्य को नायक बनाकर शत्रुओं और रोगों से अपने को बचावें ॥६॥
Footnote: ६−(वानस्पत्यान्)। वनति सेवते। अथवा। वन्यते सेव्यते स वनः। तेषां पतिः, वनस्पतिः। [वनस्पते] वनस्य सम्भजनीयस्य शास्त्रस्य पालक-इति दयानन्दभाष्ये, यजु० २७।२१। ततः। दित्यदित्यादित्य०। पा० ४।१।८५। इति ण्यप्रत्ययः। सेवकानां सेव्यगुणानां वा पालकस्य संबन्धिनः पुरुषान्। स्वभक्तानित्यर्थः। यद्वा, समूहार्थे ण्यः। वृक्षान्। (आरोहन्)। रुह जन्मप्रादुर्भावयोः-शतृ। आरूढः, अधिष्ठाता सन्। (कृणुषे)। करोषि। (अधरान्)। नीचान्। स्वशरणे रक्षितान्। (मूर्धानम्)। श्वन्नुक्षन्पूषन्प्लीहन्०। उ० १।१५९। इति मुर्व बन्धने-कनिन्। मस्तकम्। (विष्वक्)। विषु+अञ्चु-क्विन्। सर्वतः। (भिन्धि)। विदारय। (सहस्व)। अभिभव ॥
