स॑ध्री॒चीना॑न्वः॒ संम॑नसस्कृणो॒म्येक॑श्नुष्टीन्त्सं॒वन॑नेन॒ सर्वा॑न्। दे॒वा इ॑वा॒मृतं॒ रक्ष॑माणाः सा॒यंप्रा॑तः सौमन॒सो वो॑ अस्तु ॥
सध्रीचीनान् । व: । सम्ऽमनस: । कृणोमि । एकऽश्नुष्टीन् । सम्ऽवननेन । सर्वान् । देवा:ऽइव । अमृतम् । रक्षमाणा: । सायम्ऽप्रात: । सौमनस: । व: । अस्तु ॥३०.७॥
PANDIT KSHEMKARANDAS TRIVEDI
परस्पर मेल का उपदेश।
