Go To Mantra
Viewed 100 times

ज्याय॑स्वन्तश्चि॒त्तिनो॒ मा वि यौ॑ष्ट संरा॒धय॑न्तः॒ सधु॑रा॒श्चर॑न्तः। अ॒न्यो अ॒न्यस्मै॑ व॒ल्गु वद॑न्त॒ एत॑ सध्री॒चीना॑न्वः॒ संम॑नसस्कृणोमि ॥

Mantra Audio
Pad Path

ज्यायस्वन्त: । चित्तिन: । मा । वि । यौष्ट । सम्ऽराधयन्त: । सऽधुरा: । चरन्त: । अन्य: । अन्यस्मै । वल्गु । वदन्त: । आ । इत । सध्रीचीनान् । व: । सम्ऽमनस: । कृणोमि ॥३०.५॥

Atharvaveda » Kand:3» Sukta:30» Paryayah:0» Mantra:5


PANDIT KSHEMKARANDAS TRIVEDI

परस्पर मेल का उपदेश।

Word-Meaning: - (ज्यायस्वन्तः) बड़ों का मान रखनेवाले (चित्तिनः) उत्तम चित्तवाले, (संराधयन्तः) समृद्धि [धन धान्य की वृद्धि] करते हुए और (सधुराः) एक धुरा होकर (चरन्तः) चलते हुए तुम लोग (मा वि यौष्ट) अलग-अलग न होओ, और (अन्यो अन्यस्मै) एक दूसरे से (वल्गु) मनोहर (वदन्तः) बोलते हुए (एत) आओ। (वः) तुमको (सध्रीचीनान्) साथ-साथ गति [उद्योग वा विज्ञान] वाले और (संमनसः) एक मनवाले (कृणोमि) मैं करता हूँ ॥५॥
Connotation: - वेदानुयायी मनुष्य विद्यावृद्ध, धनवृद्ध, आयुवृद्धों का आदर करके उत्तम गुणों की प्राप्ति, और मिलकर उद्योग से, धन धान्य राज आदि बढ़ाते और आनन्द भोगते हैं ॥५॥
Footnote: ५−(ज्यायस्वन्तः) ज्यायस्-वन्तः। ज्य च। वृद्धस्य च। पा० ५।३।६१, ६२। इति प्रशस्यस्य वृद्धस्य वा ज्य इत्यादेशः, ईयसुनि प्रत्यये। ज्यादादीयसः। पा० ६।४।१६०। इति ईकारस्य आकारः। ततो मतुप् प्रशंसायाम्। ज्यायांसो प्रशस्या वृद्धा वा प्रशंसनीया येषां ते तथोक्ताः। (चित्तिनः) उत्तमचित्तवन्तः। (मा वि यौष्ट) यु मिश्रणामिश्रणयोः, माङि लुङि रूपम्। इडभावश्छान्दसः। मा पृथग् भूत। वियुक्ता मा भवत। (संराधयन्तः) राध संसिद्धौ, णिच्-शतृ। सम्यक् संसिद्धिकाः। समानकार्याः। (सधुराः) ऋक्पूरब्धूःपथामानक्षे। पा० ५।४।७४। इति सह+धुर-अकारः। समासान्तः। सहकार्योद्वहनाः। (चरन्तः) गच्छन्तः। (वल्गु) अ० २।३६।१। मनोहरम्। प्रियवाक्यम्। (वदन्तः) भाषमाणाः (एत) आ+इत। आगच्छत (सध्रीचीनान्) ऋत्विग्दधृक्। पा० ३।२।५९। इति सह+अञ्चू गतिपूजनयोः-क्विन्। सहस्य सध्रिः। पा० ६।३।९५। इति सध्रि। विभाषाञ्चेरदिक् स्त्रियाम्। पा० ५।४।८। इति स्वार्थिकः खः। अकारलोपे दीर्घत्वम्। सहाञ्चतः कार्येषु सहप्रवृत्तान् (समनसः) समानमनस्कान्। (कृणोमि) करोमि ॥