Go To Mantra

यद्राजा॑नो वि॒भज॑न्त इष्टापू॒र्तस्य॑ षोड॒शं य॒मस्या॒मी स॑भा॒सदः॑। अवि॒स्तस्मा॒त्प्र मु॑ञ्चति द॒त्तः शि॑ति॒पात्स्व॒धा ॥

Mantra Audio
Pad Path

यत् । राजान: । विऽभजन्ते । इष्टापूर्तस्य । षोडशम् । यमस्य । अमी इति । सभाऽसद: । अवि: । तस्मात् । प्र । मुञ्चति । दत्त: । शितिऽपात् । स्वधा ॥२९.१॥

Atharvaveda » Kand:3» Sukta:29» Paryayah:0» Mantra:1


Reads 53 times

PANDIT KSHEMKARANDAS TRIVEDI

मनुष्य परमेश्वर की भक्ति से सुख पाता है।

Word-Meaning: - (यत्) जिस कारण से (यमस्य) नियमकर्त्ता परमेश्वर के (अमी सभासदः) ये सभासद् (राजानः) ऐश्वर्यवाले राजा लोग (इष्टापूर्तस्य) यज्ञ, वेदाध्ययन, अन्न दानादि पुण्यकर्म के [फल], (षोडशम्) सोलहवें पदार्थ मोक्ष को [चार वर्ण, चार आश्रम, सुनना, विचारना, ध्यान करना, अप्राप्त की इच्छा, प्राप्त की रक्षा, रक्षित का बढ़ाना, बढ़े हुए का अच्छे मार्ग में व्यय करना, इन पन्द्रह प्रकार के अनुष्ठान से पाये हुए सोलहवें मोक्ष को] (विभजन्ते) विशेष करके भोगते हैं, (तस्मात्) उसी कारण से [आत्मा को] (दत्तः) दिया हुआ, (शितिपात्) उजियाले और अन्धेरे में गतिवाला, (अविः) प्रभु (स्वधा) हमारे आत्मा को पुष्ट करनेवाला वा धन का देनेवाला अमृतरूप वा अन्न रूप होकर [पुरुषार्थी को] (प्र) अच्छे प्रकार से (मुञ्चति) मुक्त करता है ॥१॥
Connotation: - धर्मराज परमेश्वर की आज्ञा माननेवाले पुरुषार्थी स्त्री पुरुष मोक्ष सुख भोगते रहते हैं, इसीसे सब लोग उस अन्तर्यामी को हृदय में रखकर पुरुषार्थ से (स्वधा) अमृत अर्थात् आत्मबल और धनधान्य पाकर मोक्ष आनन्द भोगें ॥१॥
Footnote: १−(यद्) यस्मात् कारणात् (राजानः) अ० १।१०।१। ईश्वराः। समर्थाः (विभजन्ते) विशेषेण सेवन्ते (इष्टापूर्तस्य) अ० २।१२।४। यज्ञवेदाध्ययनान्नदानादिपुण्यकर्मणः (षोडशम्) तस्य पूरणे डट्। पा० ५।२।४८। इति षोडशन्-डट्। पद उत्वं दतृदशाधासूत्तरपदादेः ष्टुत्वं च। वा० पा० ६।३।१०९। इति उत्वष्टुत्वे। षोडशानां पूरकम्। चत्वारो वर्णाश्चत्वार आश्रमाः श्रवणमनननिदिध्यासनानि त्रीणि कर्माणि, अलब्धस्य लिप्सा, लब्धस्य यत्नेन रक्षणं, रक्षितस्य वृद्धिः, वृद्धस्य सन्मार्गे व्ययकरणमेष चतुर्विधः पुरुषार्थः। एतैः पञ्चदशभिः प्राप्तं षोडशं मोक्षम्, यथा दयानन्दभाष्ये, यजुर्वेदे ९।३४। (यमस्य) यमयतीति यमः। यम परिवेषणे-अच्। नियन्तुः। नियामकस्य। धर्मराजस्य। परमेश्वरस्य (अमी) परिदृश्यमानाः (सभासदः) सभा+षद्लृ गतौ, उपवेशने-क्विप्। सभेयाः (अविः) अ० ३।१७।३। अव रक्षणगतिकान्तिप्रीत्यादिषु-इन्। रक्षकः। गतिमान्। प्रभुः। सूर्यः, सूर्यरूपः परमात्मा (तस्मात्) पूर्वोक्तात् कारणात् (प्र) प्रकर्षेण (मुञ्चति) दुःखात् मुक्तं करोति (दत्तः) आत्मने समर्पितः (शितिपात्) क्रमितमिशतिस्तम्भामत इच्च उ० ४।१२२। इति शति, हिंसायाम्-इन्। स च कित्, अत इकारः। पादस्य लोपोऽहस्त्यादिभ्यः। पा० ५।४।१३८। इति अकारलोपः। शितिः शुक्लः, कृष्णश्च। तयोर्मध्ये पादो गमने यस्य स तथाभूतः। प्रकाशान्धकारयोः समानगमनः। (स्वधा) अ० २।२९।७। स्वम् अस्माकमात्मानं पुष्णाति धनं ददातीति वा,। अमृतरूपः। अन्नरूपो भूत्वा ॥