Go To Mantra

ध्रु॒वा दिग्विष्णु॒रधि॑पतिः क॒ल्माष॑ग्रीवो रक्षि॒ता वी॒रुध॒ इष॑वः। तेभ्यो॒ नमो॑ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु। यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥

Mantra Audio
Pad Path

ध्रुवा । दिक् । विष्णु: । अधिऽपति: । कल्माषऽग्रीव: । रक्षिता । वीरुध: । इषव: । तेभ्य: । नम: । अधिपतिऽभ्य: । नम: । रक्षितृऽभ्य: । नम: । इषुऽभ्य: । नम: । एभ्य: । अस्तु । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । तम् । व: । जम्भे । दध्म: ॥२७.५॥

Atharvaveda » Kand:3» Sukta:27» Paryayah:0» Mantra:5


Reads 64 times

PANDIT KSHEMKARANDAS TRIVEDI

सेना व्यूह का उपदेश।

Word-Meaning: - (ध्रुवा=ध्रुवायाः) स्थिर (दिक्=दिशः) दिशा का (विष्णुः) कामों में व्यापक [सद्वैद्य] (अधिपतिः) अधिष्ठाता होवे, (कल्माषग्रीवः) चितकबरे वा काले गलेवाले साँप [के समान सेना व्यूह] (रक्षिता) रक्षक होवे, और (वीरुधः) जड़ी बूटी औषधें (इषवः) बाण होवें। (तेभ्यः अधिपतिभ्यः) उन अधिष्ठाताओं और.... [म० १] ॥५॥
Connotation: - सद्वैद्य दृढ़ वा निश्चित स्थान में औषधालय से सैनिकों को स्वस्थ रक्खे और उसके साथ सेना कल्माषग्रीवा नाम व्यूह बनाकर रहे, और सब मिलकर शत्रुओं को जीतकर... [म० १] ॥५॥
Footnote: ५−(ध्रुवा) अ० २।२६।४। ध्रुवायाः। स्थिरायाः (दिक्) दिशः। (विष्णुः) अ० ३।२०।४। वेवेष्टि कार्याणि स विष्णुः सद्वैद्यः (कल्माषग्रीवः) कल गतौ-क्विप्, मष वधे-अण्। शेवायह्वजिह्वाग्रीवा०। उ० १।१५४। इति गॄ निगलने-वन्। कल्माषः कृष्णवर्णः ग्रीवासु यस्य स कल्माषग्रीवः, एतदाख्यः सर्पः-इति सायणः। चित्रग्रीवायुक्तः कृष्णग्रीवायुक्तो वा सर्प इव सेनाव्यूहः (वीरुधः) अ० १।३२।१। विरोहणशीला ओषधयः। शिष्टं स्पष्टम् ॥