Go To Mantra
Viewed 86 times

यत्ते॒ वर्चो॑ जातवेदो बृ॒हद्भव॒त्याहु॑तेः। याव॒त्सूर्य॑स्य॒ वर्च॑ आसु॒रस्य॑ च ह॒स्तिनः॑। ताव॑न्मे अ॒श्विना॒ वर्च॒ आ ध॑त्तां॒ पुष्क॑रस्रजा ॥

Mantra Audio
Pad Path

यत् । ते । वर्च: । जातऽवेद: । बृहत् । भवति । आऽहुते: । यावत् । सूर्यस्य । वर्च: । आसुरस्य । च ।‍ हस्तिन: । तावत् । मे । अश्विना । वर्च: । आ । धत्ताम् । पुष्करऽस्रजा ॥२२.४॥

Atharvaveda » Kand:3» Sukta:22» Paryayah:0» Mantra:4


PANDIT KSHEMKARANDAS TRIVEDI

कीर्ति पाने के लिये उपदेश।

Word-Meaning: - (यत्) जिस कारण से (जातवेदः) उत्पन्न संसार के ज्ञानवाले परमेश्वर ! (ते) तेरे लिये (आहुतेः) आहुति [आत्मदान] से [हमारा] (वर्चः) तेज (बृहत्) बड़ा (भवति) होता है, (यावत्) जितना (वर्चः) तेज वा बल (आसुरस्य) प्राणियों वा मेघों के हितकारक (सूर्यस्य) सूर्य का (च) और (हस्तिनः) हाथी का है, (तावत्) उतना (वर्चः) तेज वा बल (मे) मेरे लिये (पुष्करस्रजा=०-जौ) पोषण देनेवाले (अश्विना=०-नौ) माता पिता वा सूर्य्य चन्द्रमा (आधत्ताम्) सब प्रकार देवें ॥४॥
Connotation: - सब स्त्री पुरुष माता पिता की सुशिक्षा और सूर्य चन्द्रमा के समान नियम से परमेश्वर की आज्ञापालन में मन लगाकर अपना बल बढ़ावें और सूर्य आदि दूरस्थ और हाथी आदि पृथिवीस्थ पदार्थों का बल, विज्ञान द्वारा जानकर उन्नति करें ॥४॥
Footnote: ४−(यत्) यस्मात् कारणात्। (ते) तुभ्यम्। (वर्चः) तेजः। बलम्। (जातवेदः) अ० १।७।२। हे जातस्य उत्पन्नस्य संसारस्य ज्ञातः परमेश्वर। (बृहत्) महत्। (आहुतेः) दानात्। आत्मसमर्पणात्। (यावत्) अ० ३।१५।३। यत्परिमाणम्। (सूर्यस्य) आदित्यस्य। (आसुरस्य) असुर इति व्याख्यातम् अ० १।१०।१। असुः प्राणः-रो मत्वर्थीयः। असुरः प्राणी, ततो अण् प्रत्ययः। प्राणिभ्यो हितस्य। यद्वा, असुरो मेघः-निघ० १।१०। तेभ्यो हितस्य। (हस्तिनः) गजस्य। (तावत्) तत्परिमाणम्। (मे) मह्यम्। (अश्विना) अ० २।२९।६। मातापितरौ। सूर्याचन्द्रमसौ। (आ धत्ताम्) समन्तात् स्थापयताम्। प्रयच्छताम् (पुष्करस्रजौ) पुषः कित्। उ० ४।४। इति पुष पोषणे-करन्। पुष्णातीति पुष्करम्। ऋत्विग्दधृक्स्रग्० पा० ३।२।५९। इति सृज त्यागे=दाने-क्विन्। पोषणदातारौ ॥