Go To Mantra

हिर॑ण्यपाणिं सवि॒तार॒मिन्द्रं॒ बृह॒स्पतिं॒ वरु॑णं मि॒त्रम॒ग्निम्। विश्वा॑न्दे॒वानङ्गि॑रसो हवामह इ॒मं क्र॒व्यादं॑ शमयन्त्व॒ग्निम् ॥

Mantra Audio
Pad Path

हिरण्यऽपाणिम् । सवितारम् । इन्द्रम् । बृहस्पतिम् । वरुणम् । मित्रम् । अग्निम् । विश्वान् । देवान् । अङ्गिरस: । हवामहे । इमम् । क्रव्यऽअदम् । शमयन्तु । अग्निम् ॥२१.८॥

Atharvaveda » Kand:3» Sukta:21» Paryayah:0» Mantra:8


Reads 50 times

PANDIT KSHEMKARANDAS TRIVEDI

परमेश्वर के गुणों का उपदेश।

Word-Meaning: - (हिरण्यपाणिम्) सूर्य आदि तेजों से स्तुति किये हुए (सवितारम्) सबके प्रेरक (इन्द्रम्) बड़े ऐश्वर्यवाले (बृहस्पतिम्) बड़े लोकों के रक्षक (वरुणम्) सबमें श्रेष्ठ, (मित्रम्) हितकारी (अग्निम्) ज्ञानस्वरूप परमेश्वर से (विश्वान्) सब (देवान्) विजय करानेवाले (अङ्गिरसः) ज्ञानों वा पुरुषार्थों को (हवामहे) हम माँगते हैं (इमम्) इस (क्रव्यादम्) मांस खानेवाले (अग्निम्) अग्नि [समान दुःख] को (शमयन्तु) वे शान्त कर दें ॥८॥
Connotation: - मनुष्य ईश्वर के अनुपम गुणों का अनुभव करके पुरुषार्थी बनें और अग्नि समान तापकारी और शरीरशोषक दुःखों का नाश करें ॥८॥
Footnote: ८−(हिरण्यपाणिम्) हिरण्यम्-इति व्याख्यातम्। अ० १।९।२। अशिपणाय्योरुडायलुकौ च। उ० ४।१३३। इति पण व्यवहारे, पन स्तुतौ च-इण्। इति पाणिः। हिरण्यपाणिम्-हिरण्यानि सूर्यादीनि तेजांसि पाणौ स्तवने यस्य तम्-इति दयानन्दभाष्ये य० २२।१०। (सवितारम्) सर्वप्रेरकम् (इन्द्रम्) परमैश्वर्यवन्तम्। (बृहस्पतिम्) बृहतां लोकानां रक्षकम्। (वरुणम्) वरणीयम्। (मित्रम्) स्नेहिनम्। (अग्निम्) ज्ञानस्वरूपं परमेश्वरम्। (देवान्) विजिगीषून्। (अङ्गिरसः) अ० २।१२।४। अगि गतौ-भावे इसि, रुट् च। ज्ञानानि। पुरुषार्थान्। (हवामहे) आह्वयामः। याचामहे। द्विकर्मकत्वाद् अग्निम्-इत्यस्य, अङ्गिरसः-इत्यस्य च कर्मत्वम्। (क्रव्यादम्) क्रव्ये च। पा० ३।२।६९। इति अदेर्विट् मांसभक्षकम्। (शमयन्तु) शान्तं कुर्वन्तु। (अग्निम्) अग्निवत्तापकं दुःखम् ॥