Go To Mantra
Viewed 83 times

यो दे॒वो वि॒श्वाद्यमु॒ काम॑मा॒हुर्यं दा॒तारं॑ प्रतिगृ॒ह्णन्त॑मा॒हुः। यो धीरः॑ श॒क्रः प॑रि॒भूरदा॑भ्य॒स्तेभ्यो॑ अ॒ग्निभ्यो॑ हु॒तम॑स्त्वे॒तत् ॥

Mantra Audio
Pad Path

य: । देव: । विश्वऽअत् । यम् । ऊं इति । कामम् । आहु: । यम् । दातारम् । प्रतिऽगृह्णन्तम् । आहु: ।य: । धीर: । शक्र: । परिऽभू: । अदाभ्य: । तेभ्य: । अग्निऽभ्य: । हुतम् । अस्तु । एतत् ॥२१.४॥

Atharvaveda » Kand:3» Sukta:21» Paryayah:0» Mantra:4


PANDIT KSHEMKARANDAS TRIVEDI

परमेश्वर के गुणों का उपदेश।

Word-Meaning: - (यः) जो (देवः) प्रकाशमान अग्नि, [वैरियों में] (विश्वात्) सबका खानेवाला है, (यम्) जिसको (उ) ही (कामम्) कमनीय वा कामना पूरी करनेवाला (आहुः) लोग कहते हैं, (यम्) जिसको (दातारम्) देनेवाला और (प्रतिगृह्णन्तम्) लेनेवाला (आहुः) बताते हैं। (यः) जो (धीरः) पुष्टि करनेवाला, (शक्रः) शक्तिमान् (परिभूः) सर्वव्यापक और (अदाभ्यः) न दबने योग्य है, (तेभ्यः) उन (अग्निभ्यः) अग्नियों [ईश्वरतेजों] को (एतत्) यह (हुतम्) दान [आत्मसमर्पण] (अस्तु) होवे ॥४॥
Connotation: - जिस परमात्मा को विद्वान् लोग आनन्ददाता और प्रार्थना का माननेवाला जानते हैं, और जिसके ध्यान से पुरुषार्थी लोग शत्रुओं को जीतते हैं, उसको हमारा प्रणाम है ॥४॥
Footnote: ४−(देवः) प्रकाशमानोऽग्निः। (विश्वात्) अदोऽनन्ने। अ० ३।२।६८। इति विश्व+अद भक्षणे-विट्। शत्रूणां सर्वभक्षकः। (कामम्) कमु इच्छायाम्-घञ्। कमनीयम्। कामयितारम्। (आहुः) ब्रूञ्-लेट्। ब्रुवन्ति। (दातारम्) इष्टफलस्य प्रदातारम्। (प्रतिगृह्णन्तम्) ग्रह-शतृ। प्रार्थनायाः स्वीकर्तारम्। (धीरः) अ० २।३५।३। धाञ्-क्रन्, ईत्वम्। दधाति पोषयतीति। धारकः। पोषकः। (शक्रः) अ० २।५।४। शक्तिमान्। (परिभूः) परि+भू सत्तायाम्, प्राप्तौ-क्विप्। सर्वव्यापकः। (अदाभ्यः) ऋहलोर्ण्यत्। पा० ३।१।२२४। इति दम्भु दम्भे-ण्यत्। दभ्नोतिर्वधकर्मा-निघ० २।१९। अहिंस्यः। अजेयः ॥