Go To Mantra
Viewed 70 times

वाज॑स्य॒ नु प्र॑स॒वे सं ब॑भूविमे॒मा च॒ विश्वा॒ भुव॑नानि अ॒न्तः। उ॒तादि॑त्सन्तं दापयतु प्रजा॒नन्र॒यिं च॑ नः॒ सर्व॑वीरं॒ नि य॑च्छ ॥

Mantra Audio
Pad Path

वाजस्य । नु । प्रऽसवे । सम् । बभूविम । इमा । च । विश्वा । भुवनानि । अन्त: । उत । अदित्सन्तम् । दापयतु । प्रऽजानन् । रयिम् । च । न: । सर्वऽवीरम् । नि । यच्छ ॥२०.८॥

Atharvaveda » Kand:3» Sukta:20» Paryayah:0» Mantra:8


PANDIT KSHEMKARANDAS TRIVEDI

ब्रह्मविद्या का उपदेश।

Word-Meaning: - (वाजस्य) बल के (प्रसवे) उत्पत्ति में (नु) ही (संबभूविम) हम समर्थ हुए हैं, (च) और (इमा=इमानि) यह (विश्वा=विश्वानि) सब (भुवनानि) लोक (अन्तः) [उसीके] भीतर हैं, (प्रजानन्) ज्ञानवान् ईश्वर (अदित्सन्तम्) देने की इच्छा न करनेवाले से (उत) भी (दापयतु) दिलावे। (च) और [हे ईश्वर] (नः) हमें (सर्ववीरम्) सर्ववीरों से युक्त (रयिम्) धन (नि) नित्य (यच्छ) दे ॥८॥
Connotation: - सब चराचर जगत् अन्न के आश्रित ठहरा है। सर्वज्ञ परमेश्वर अदानी पुरुषों को भी सुपात्रों के लिये दान शक्ति देवे, और हमें और हमारे वीरों को धनी बनावे ॥८॥ यह मन्त्र कुछ भेद से यजुर्वेद १९।२५ वा २४ में है ॥
Footnote: ८−(वाजस्य) बलस्य। (नु) एव। (प्रसवे) ॠदोरप्। पा० ३।३।५७। इति प्र+षू प्रेरणे, यद्वा, षूङ् प्राणिगर्भविमोचने-अप्। उत्पत्तौ। (संबभूविम) भू सत्तायाम्-लिट्। वयं समर्था बभूविम। (इमा) इमानि। परिदृश्यमानानि। (विश्वा) सर्वाणि। (भुवनानि) अ० २।१।४। भू-क्युन्। लोकाः (अन्तः) वाजप्रसवस्य मध्ये वर्त्तन्ते। (उत) अपि। (अदित्सन्तम्) नञ्+दा, सन्-शतृ। सनि भीमाघुरभ०। पा० ७।४।५४। इति इसादेशः। सः स्यार्धधातुके। पा० ७।४।४९। इति सस्य तकारः। दातुमनिच्छन्तम्। (दापयतु) दानाय प्रवर्तयतु। (प्रजानन्) अवगच्छन् परमेश्वरः। (रयिम्) धनम्। (नः) अस्मभ्यम्। (सर्ववीरम्) सर्ववीरोपेतम् (नि) नियमेन। नित्यम्। (यच्छतु) पाघ्राध्मास्थाम्नादाण्० पा० ७।३।७८। इति दाण् दाने यच्छादेशः। ददातु ॥