Viewed 83 times
सम॒हमे॒षां रा॒ष्ट्रं स्या॑मि॒ समोजो॑ वी॒र्यं बल॑म्। वृ॒श्चामि॒ शत्रू॑णां बा॒हून॒नेन॑ ह॒विषा॒हम् ॥
Pad Path
सम् । अहम् । एषाम् । राष्ट्रम् । स्यामि । सम् । ओज: । वीर्यम् । बलम् । वृश्चामि । शत्रूणाम् । बाहून् । अनेन । हविषा । अहम् ॥१९.२॥
Atharvaveda » Kand:3» Sukta:19» Paryayah:0» Mantra:2
PANDIT KSHEMKARANDAS TRIVEDI
युद्धविद्या का उपदेश।
Word-Meaning: - (अहम्) मैं (एषाम्) इन [अपने वीरों] के (राष्ट्रम्) राज्य (ओजः) शारीरिक बल, (वीर्यम्) वीरता और (बलम्) सेना दल को (सम्) भले प्रकार (संस्यामि) जोड़ता हूँ। (अहम्) मैं (शत्रूणाम्) शत्रुओं की (बाहून्) भुजाओं को (अनेन) इस (हविषा) अन्न वा आवाहन से (वृश्चामि) काटता हूँ ॥२॥
Connotation: - राजा सत्कारपूर्वक अपने वीरों को, सामाजिक शारीरिक और हविषा आर्थिक दशा के सुधार से सन्तुष्ट रखकर शत्रुओं का नाश करे ॥२॥
Footnote: २−(सम्) सम्यक् प्रकारेण। (अहम्) पुरोहितः। राजा। (एषाम्) स्ववीराणाम्। (राष्ट्रम्) अ० ३।४।१। राज्यम्। (संस्यामि) षो अन्तकर्मणि। सम्+षो संयोजने। संयोजयामि। वर्धयामि। दृढीकरोमि। (ओजः) अ० १।१२।१। शारीरिकबलम्। (वीर्यम्) वीरताम्। (बलम्) सैन्यम्। (वृश्चामि) ओव्रश्चू छेदने। छिनद्मि। (बाहून्) भुजान्। पराक्रमान्। (हविषा) अ० १।४।३। अन्नेन आवाहनेन ॥
