Go To Mantra
Viewed 74 times

उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒ अह्ना॑म्। उ॒तोदि॑तौ मघव॒न्त्सूर्य॑स्य व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥

Mantra Audio
Pad Path

उत । इदानीम् । भगऽवन्त: । स्याम । उत । प्रऽपित्वे । उत । मध्ये । अह्नाम् । उत । उत्ऽइतौ । मघऽवन् । सूर्यस्य । वयम् । देवानाम् । सुऽमतौ । स्याम ॥१६.४॥

Atharvaveda » Kand:3» Sukta:16» Paryayah:0» Mantra:4


PANDIT KSHEMKARANDAS TRIVEDI

बुद्धि बढ़ाने के लिये प्रभात गीत।

Word-Meaning: - (उत) और (इदानीम्) इस समय (उत उत) और भी (अह्नाम्) दिनों के (मध्ये) मध्य (प्रपित्वे) पाये हुए [ऐश्वर्य] में हम (भगवन्तः) बड़े ऐश्वर्यवाले (स्याम) होवें। (उत) और (मघवन्) हे महाधनी ईश्वर ! (सूर्यस्य) सूर्य के (उदितौ) उदय में (देवानाम्) विद्वानों की (सुमतौ) सुमति में (वयम्) हम (स्याम) रहें ॥४॥
Connotation: - मन्त्र ३ के अनुसार पाये हुए ऐश्वर्य को हम सब और आगे भी बढ़ावें, और जैसे सूर्य के उदय में प्रकाश बढ़ता जाता है वैसे ही देवताओं के अनुकरण से हम अपनी धार्मिक बुद्धि का अभ्युदय करें ॥४॥ उदितौ के स्थान पर ऋग् और यजुर्वेद में उदिता है ॥
Footnote: ४−(उत्) समुच्चये। (इदानीम्) इदम्-दानीम्। इदम् इश्। पा० ५।३।३। दानीं च। पा० ५।३।१९। इति वर्तमाने दानीम्। अस्मिन् काले। (भगवन्तः) सकलैश्वर्ययुक्ताः। (स्याम) भवेम। (उत, उत) नित्यवीप्सयोः। पा० ८।१।४। इति द्विर्वचनम्। अपि च। (प्रपित्वे) अन्येभ्योऽपि दृश्यन्ते। उ० ४।१०५। प्र+आप्लृ व्याप्तौ-इत्वन्, आकारलोपः। प्रपित्वेऽभीक इत्यासन्नस्य प्रपित्वे प्राप्ते-निरु० ३।२०। प्राप्ते सौभाग्ये। (अह्नाम् मध्ये) दिनानाम्। मध्ये। भविष्यकाले। (उदितौ) उद्+इण् गतौ-क्तिन्। उदये। उद्गमने। (मघवन्) अ० २।५।७। महि वृद्धौ, दाने च-घञर्थे क, मतुप्। मघमिति धननामधेयं महंतेर्दानकर्मणः-निरु० १।७। हे प्रशस्तधनवन्। (सूर्यस्य) आदित्यस्य। (देवानाम्) आप्तविदुषाम्। (सुमतौ) कल्याण्यां बुद्धौ ॥