Go To Mantra

प्रा॑त॒र्जितं॒ भग॑मु॒ग्रं ह॑वामहे व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता। आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ॥

Mantra Audio
Pad Path

प्रात:ऽजितम् । भगम् । उग्रम् । हवामहे । वयम् । पुत्रम् । अदिते: । य: । विऽधर्ता । आध्र: । चित् । यम् । मन्यमान: । तुर: । चित् । राजा । चित् । यम् । भगम् । भक्षि । इति । आह ॥१६.२॥

Atharvaveda » Kand:3» Sukta:16» Paryayah:0» Mantra:2


Reads 48 times

PANDIT KSHEMKARANDAS TRIVEDI

बुद्धि बढ़ाने के लिये प्रभात गीत।

Word-Meaning: - (वयम्) हम (प्रातर्जितम्) प्रातःकाल में [अन्धकारादि को] जीतनेवाले (भगम्) सूर्य [समान] (उग्रम्) तेजस्वी (पुत्रम्) पवित्र, अथवा बहुविधि से रक्षा करनेवाले, अथवा नरक से बचानेवाले [परमेश्वर] को (हवामहे) बुलाते हैं, (यः) जो [परमेश्वर] (अदितेः) प्रकृति वा भूमि का (विधर्त्ता) धारण करनेवाला और (यम्) जिस [परमेश्वर] को (मन्यमानः) पूजता हुआ (आध्रः) सब प्रकार धारण योग्य कंगाल, (चित्) भी, और (तुरः) शीघ्रकारी बलवान् (चित्) भी, और (राजा) ऐश्वर्यवान् राजा (चित्) भी (इति) इस प्रकार (आह) कहता है,(यम्) यश और (भगम्) धन को (भक्षि=अहं भक्षीय) मैं सेवूँ ॥२॥
Connotation: - जैसे सूर्य प्रातःकाल अन्धकार, आलस्यादि मिटाकर जीवों में नयी शक्ति देता है, ऐसे ही सब छोटे बड़े जीव और पृथिवी आदि लोक भी परमात्मा की शक्ति से अपनी अपनी शक्ति बढ़ाते हैं, उसीका धन्यवाद हम सब पिता पुत्रादि मिलकर गावें ॥२॥ हवामहे के स्थान पर ऋग्वेद और यजुर्वेद में हुवेम पद है ॥
Footnote: २−(प्रातर्जितम्) सत्सूद्विष०। पा० ३।२।६१। इति प्रातर्+जि जये-क्विप्, तुक्। प्रातःकाले जयशीलम् अन्धकारादिकस्य। (भगम्) सूर्यं यथा। (उग्रम्) तेजस्विनम् (हवामहे) म० १। (पुत्रम्) अ० १।११।५। पूङ् शोधे क्त्र। यद्वा। पुरु यद्वा, पुत्+त्रैङ् रक्षणे-ड। पवित्रं बहुत्रातारं पुंतो नरकात् त्रातारं वा परमेश्वरम्। (अदितेः) अ० २।२८।४। प्रकृतेः पृथिव्या वा। (विधर्ता) विविधं धारकः पोषकः। (आध्रः) आङ्+धृञ्-क। आधारयितव्यो दरिद्रः। (चित्) अपि च। (यम्) परमेश्वरम्। (मन्यमानः) मन्यते, अर्चतिकर्मा-निघ० ३।१४। अर्चन्। पूजयन्। स्तुवन्। (तुरः) तुर वेगे, इगुपधलक्षणः कः। त्वरमाणः बलवान्। (राजा) अ० १।१०।२। ऐश्वर्यवान् पुरुषः। (यम्) या गतौ, यज देवपूजने, वा, यम परिवेषणे-ड। यशः। कीर्तिम्। (भगम्) धनम्, निघ० २।१०। (भक्षि) भज सेवायाम्, आत्मनेपदस्य आशीर्लिङि उत्तमैकवचने छान्दसं रूपम्। अहं भक्षीय। सेवेय। (इति) अनेन प्रकारेण। (आह) ब्रूञ् व्यक्तायां वाचि-लट्। ब्रवीति। प्रार्थयते, आध्रादीनां प्रत्येकम् ॥