ये पन्था॑नो ब॒हवो॑ देव॒याना॑ अन्त॒रा द्यावा॑पृथि॒वी सं॒चर॑न्ति। ते मा॑ जुषन्तां॒ पय॑सा घृ॒तेन॒ यथा॑ क्री॒त्वा धन॑मा॒हरा॑णि ॥
ये । पन्थान: । बहव:। देवऽयाना: । अन्तरा । द्यावापृथिवी इति । सम्ऽचरन्ति । ते । मा । जुषन्ताम् । पयसा । घृतेन । यथा । क्रीत्वा । धनम् । आऽहराणि ॥१५.२॥
PANDIT KSHEMKARANDAS TRIVEDI
व्यापार के लाभ का उपदेश।
