आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसन्न॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत्ताः। ती॒व्रो रसो॑ मधु॒पृचा॑मरंग॒म आ मा॑ प्रा॒णेन॑ स॒ह वर्च॑सा गमेत् ॥
आप: । भद्रा: । घृतम् । इत् । आप: । आसन् । अग्नीषोमौ । बिभ्रती । आप: । इत् । ता: । तीव्र: । रस: । मधुऽपृचाम् । अरम्ऽगम: । आ । मा । प्राणेन । सह । वर्चसा । गमेत् ॥१३.५॥
PANDIT KSHEMKARANDAS TRIVEDI
जल के गुणों का उपदेश।
