Go To Mantra

एको॑ वो दे॒वोऽप्य॑तिष्ठ॒त्स्यन्द॑माना यथाव॒शम्। उदा॑निषुर्म॒हीरिति॒ तस्मा॑दुद॒कमु॑च्यते ॥

Mantra Audio
Pad Path

एक: । व: । देव: । अपि । अतिष्ठत् । स्यन्दमाना: । यथाऽवशम् । उत् । आनिषु: । मही: । इति । तस्मात् । उदकम्: । उच्यते ॥१३.४॥

Atharvaveda » Kand:3» Sukta:13» Paryayah:0» Mantra:4


Reads 53 times

PANDIT KSHEMKARANDAS TRIVEDI

जल के गुणों का उपदेश।

Word-Meaning: - (एकः) अकेला (देवः) जयशील परमात्मा (यथावशम्) इच्छानुसार (स्यन्दमानाः) बहते हुए (वः) तुम्हारा (अपि अतिष्ठत्) अधिष्ठाता हुआ। (महीः=महत्यः) शक्तिवाले [आपः जल] ने (इति) इस प्रकार (उत्+आनिषुः) ऊपर को श्वास ली, (तस्मात्) इसलिये (उदकम्) ऊपर को श्वास लेनेवाला उदक वा जल (उच्यते) कहा जाता है ॥४॥
Connotation: - ईश्वर की सामर्थ्य से सूर्य्य द्वारा जल आकाश में चढ़ता है, इसलिये उदक जल का नाम है। उत् आनिषुः और उदकम् उत्+अन, श्वास लेना-धातु से बनते हैं ॥४॥
Footnote: ४−(एकः)। अद्वितीयः। (वः)। युष्मान्। (देवः)। दिवु विजिगीषायाम्-अच्। जेता। (अपि अतिष्ठत्)। अपि=अधि। अधिष्ठितवान्। शासितवान् (स्यन्दमानाः)। स्यन्दनशीलाः। (यथावशम्)। यथेच्छम्। (उत् आनिषुः)। अन प्राणने-लुङ्। उच्छ्वासितवत्यः। (महीः)। महत्यः। (इति)। एवम्। (तस्मात्)। (उदकम्)। कृदाधारार्चिकलिभ्यः कः। उ० ३।४०। इति उत्+अन प्राणने-क। नलोपः। यद्वा। उदकं च। उ० २।३९। इति उन्दी क्लेदने-क्वुन्। उदकं कस्मादुनत्तीति सतः-निरु० २।२४। उच्छ्वासकम्। उन्दनशीलम्। जलम्। (उच्यते)। कथ्यते ॥