Go To Mantra
Viewed 83 times

श॒तं जी॑व श॒रदो॒ वर्ध॑मानः श॒तं हे॑म॒न्तान्छ॒तमु॑ वस॒न्तान्। श॒तं त॒ इन्द्रो॑ अ॒ग्निः स॑वि॒ता बृह॒स्पतिः॑ श॒तायु॑षा ह॒विषाहा॑र्षमेनम् ॥

Mantra Audio
Pad Path

शतम् । जीव । शरद: । वर्धमान: । शतम् । हेमन्तान् । शतम् । ऊं इति । वसन्तान् ।शतम् । ते । इन्द्र: । अग्नि: । सविता । बृहस्पति: । शतऽआयुषा । हविषा । आ । अहार्षम् । एनम् ॥११.४॥

Atharvaveda » Kand:3» Sukta:11» Paryayah:0» Mantra:4


PANDIT KSHEMKARANDAS TRIVEDI

रोग नाश करने के लिये उपदेश।

Word-Meaning: - (वर्धमानः+त्वम्) बढ़ती करता हुआ तू (शतम् शरदः) सौ शरद् ऋतुओं तक (शतम् हेमन्तान्) सौ शीत ऋतुओं तक (उ) और (शतम् वसन्तान्) सौ वसन्त ऋतुओं तक (जीव) जीता रह। (इन्द्रः) ऐश्वर्यवान् (अग्निः) तेजस्वी विद्वान्, (सविता) सबका चलानेवाला, (बृहस्पतिः+अहं जीवः) बड़ों-बड़ों के रक्षक मैंने (शतम्) अनेक प्रकार से (ते) तेरेलिये (शतायुषा) सैकड़ों जीवन शक्तिवाले (हविषा) आत्मदान वा भक्ति से (एनम्) इस [आत्मा] को (आ अहार्षम्) उभारा है ॥४॥
Connotation: - मनुष्य उचित रीति से वर्षा, शीत और उष्ण ऋतुओं को सहकर बहु प्रकार मन्त्रोक्त विधि पर विद्यादिबल से शक्तिमान् होकर जीविका उपार्जन करता हुआ आत्मा की उन्नति करे ॥४॥ ऋग्वेद में (इन्द्रः अग्निः)=इन्द्राग्नी और (आ अहार्षम् एनम्)=[इमम् पुनः दुः] ॥
Footnote: ४−(शतम्)। बहुनाम। (जीव)। प्राणान् धारय। (शरदः)। शरदृतून् वर्षाकालान् इत्यर्थः। (वर्धमानः)। वृद्धिं कुर्वाणः। हेमन्तान्। हन्तेर्मुट् हि च। उ० ३।१२९। इति हन वधगत्योः-झच्, हन्तेर्हि, मुडागमः। हन्ति उष्णत्वम्। शीतकालान्। (उ)। समुच्चये। (वसन्तान्)। तॄभूवहिवसिभासि०। उ० ३।१२८। इति वस वासे, निवासे, आच्छादने च-झच्। पुष्पसमयान्। ग्रीष्मकालान्। (शतम्)। यथा तथा। बहुप्रकारेण। (ते)। तुभ्यम्। (इन्द्रः)। ऐश्वर्यवान्। (अग्निः)। अगि गतौ-नि। ज्ञानवान्। (सविता)। सर्वस्य प्रेरकः। (बृहस्पतिः)। अ० १।८।२। तथा २।१३।२। बृहत्+पतिः, सुट्, तलोपः। बृहतां विदुषां कर्मणां वा पालकः। इन्द्रादीनि चत्वारि (अहम्) इति पदस्य विशेषणानि। अन्यद् व्याख्यातम्-म० ३ ॥