Go To Mantra
Viewed 72 times

ऋ॒तून्य॑ज ऋतु॒पती॑नार्त॒वानु॒त हा॑य॒नान्। समाः॑ संवत्स॒रान्मासा॑न्भू॒तस्य॒ पत॑ये यजे ॥

Mantra Audio
Pad Path

ऋतून् । यजे । ऋतुऽपतीन् । आर्तवान् । उत । हायनान् । समा: । सम्ऽवत्सरान् । मासान् । भूतस्‍य । पतये । यजे ॥१०.९॥

Atharvaveda » Kand:3» Sukta:10» Paryayah:0» Mantra:9


PANDIT KSHEMKARANDAS TRIVEDI

पुष्टि बढ़ाने के लिये प्रकृति का वर्णन।

Word-Meaning: - (ऋतून्) ऋतुओं, (ऋतुपतीन्) ऋतुओं के स्वामियों [सूर्य, वायु आदिकों], (आर्तवान्) ऋतुओं में उत्पन्न होनेवाले (हायनान्) पाने योग्य चावल आदि पदार्थों से (संवत्सरान्) यथाविधि निवास देनेवाले (मासान्) कर्मों के नापनेवाले महीनों (उत) और (समाः) सब अनुकूल क्रियाओं को (भूतस्य) सत्ता में आये हुए जगत् के (पतये) पति के (यजे यजे) मैं बार-बार अर्पण करता हूँ ॥९॥
Connotation: - तत्त्वज्ञानी पुरुष ग्रीष्म, वर्षा, शीतादि ऋतुओं और उनके कारण सूर्य, चन्द्र, वायु, पृथिवी आदि एवं संसार के अन्य पदार्थों तथा क्रियाओं का आदि कारण जगत् पिता परमेश्वर को मानते और उसका धन्यवाद करते हैं ॥९॥
Footnote: ९−(ऋतून्)। अर्त्तेश्च तुः। उ० १।७२। इति ऋ गतौ-तु, स च कित् वसन्तादिकालाम्। (यजे)। यज देपपूजादानसङ्गतिकरणेषु। अहं समर्पयामि। (ऋतुपतीन्)। ऋतूनाम् अधिष्ठातॄन्, सूर्यचन्द्रवायुपृथिव्यादीन् देवान्। (आर्तवान्)। ऋतोरण्। पा० ५।१।१०५। इति ऋतु-अण्, तदस्य प्राप्तमित्यर्थे। ऋतूद्भवान्। ऋतुजातान्। (उत)। अपि च। (हायनान्)। हश्च व्रीहिकालयोः। पा० ३।१।१४८। इति ओहाक् त्यागे, ओहाङ् गतौ च-ण्युट्। आतो चुक् चिण्कृतोः। पा० ७।३।३३। इति युक्। दातव्यान् प्राप्तव्यान् व्रीह्यादीन् भोज्यपदार्थान्। (समाः)। अ० २।६।१। अनुकूलाः क्रियाः। (संवत्सरान्)। म० २। सम्यग् वासयितॄन्। द्वादशमासात्मकान् कालान्। (मासान्)। मस परिमाणे-घञ्। शुक्लकृष्णपक्षद्वयात्मकान् कालान्। (भूतस्य)। भू सत्तायाम्-क्त। सत्तां प्राप्तस्य चराचरात्मकस्य जगतः। (पतये)। तादर्थ्ये चतुर्थी। पालकस्य। स्वामिने ॥