यां दे॒वाः प्र॑ति॒नन्द॑न्ति॒ रात्रिं॑ धे॒नुमु॑पाय॒तीम्। सं॑वत्स॒रस्य॒ या पत्नी॒ सा नो॑ अस्तु सुमङ्ग॒ली ॥
Pad Path
याम् । देवा: । प्रतिऽनन्दन्ति । रात्रिम् । धेनुम् । उपऽआयतीम् । सम्ऽवत्सरस्य । या । पत्नी । सा । न: । अस्तु । सुऽमङ्गली ॥१०.२॥
Atharvaveda » Kand:3» Sukta:10» Paryayah:0» Mantra:2
Reads 52 times
PANDIT KSHEMKARANDAS TRIVEDI
पुष्टि बढ़ाने के लिये प्रकृति का वर्णन।
Word-Meaning: - (देवाः) महात्मा पुरुष, वा सूर्य, वायु चन्द्रादि दिव्य पदार्थ (उपायतीम्) पास आती हुई (धेनुम्) तृप्त करनेवाली (याम्) जिस (रात्रिम्) दानशीला और ग्रहणशीला शक्ति, वा रात्रिरूप [प्रकृति] को (प्रतिनन्दन्ति) अभिनन्दन करते [धन्य मानते] हैं और (या) जो (संवत्सरस्य) यथावत् निवास देनेवाले [परमेश्वर] की (पत्नी) पालनशक्ति है, (सा=सा सा) वह ईश्वरी (नः) हमारेलिये (सुमङ्गली) बड़े-२ मङ्गल करनेवाली (अस्तु) होवे ॥२॥
Connotation: - प्रकृति ईश्वरनियम से पदार्थों को उत्पन्न करके जीवों को सुख देकर उनका दुःख हरती है और अनन्त होने से वह रात्रि वा अन्धकाररूप है। विज्ञानी पुरुष खोज लगा-लगाकर उससे उपकार लेकर विविध उन्नति करते हैं ॥२॥
Footnote: २−(याम्)। (देवाः)। विद्वांसः। सूर्यवायुचन्द्रादिदिव्यपदार्थाः। (प्रतिनन्दन्ति)। टुनदि आनन्दे। प्रतिनद अभिनन्दने, धन्यवादे। अभिनन्दयन्ति। स्तुवन्ति। (रात्रिम्)। राशदिभ्यां त्रिप्। उ० ४।६७। इति रा दाने ग्रहणे च-त्रिप्। यद्वा। रमतेः-त्रिप्, मकारस्याकारश्च। रात्रिः कस्मात् प्ररमयति भूतानि नक्तञ्चारीण्युपरमयतीतराणि ध्रुवीकरोति रातेर्वा स्याद् दानकर्मणः प्रदीयन्तेऽस्यामवश्यायाः-निरु० २।१८। रात्रिः-भूस्थानदेवता-निरु० ९।२८। सुखदात्रीम्। दुःखहर्त्रीम् अनन्तत्वात्, निशारूपाम् अन्वेषणीयां वा प्रकृतिमित्यर्थः। (धेनुम्)। प्रीणयित्रीम्। (उपायतीम्)। उप+आङ्+इण् गतौ-शतृ। उगितश्च। पा० ४।१।६। इति ङीप्। समीपम् आगच्छन्तीम् (संवत्सरस्य)। अ० ३।५।८। सः स्यार्धधातुके। पा० ७।४।४९। इति सस्य तकारः। सम्यक् निवासकस्य। परमेश्वरस्य। (या)। रात्रिः (पत्नी)। पत्युर्नो यज्ञसंयोगे। पा० ४।१।३२। इति इकारस्य नकारो ङीप् च। इन्द्राणीन्द्रस्य पत्नी-निरु० ११।३७। इन्द्रस्य विभूतिः-इति दुर्गाचार्यस्य टीका। देवपत्न्यो देवानां पत्न्यः-निरु० १२।४४। पालयित्र्यः पालनीया वा-इति तस्य टीका। पातीति पतिः पत्नी चा। पालयित्री शक्तिः। (सा)। सा सा। म० १। पूर्वोक्तेश्वरी। (नः)। अस्मभ्यम्। (अस्तु)। भवतु। (सुमङ्गली)। मङ्गेरलच्। उ० ५।७०। इति मगि सर्पणे-अलच्। ङीप्। शोभनं मङ्गलं यस्याः। अत्यन्तकल्याणकरी। सुभद्रा ॥
