Viewed 80 times
अ॒भि त्वा॑ पू॒र्वपी॑तय॒ इन्द्र॒ स्तोमे॑भिरा॒यवः॑। स॑मीची॒नास॑ ऋ॒भवः॒ सम॑स्वरन्रु॒द्रा गृ॑णन्त॒ पूर्व्य॑म् ॥
Pad Path
अभि । त्वा । पूर्वऽपीतये । इन्द्र । स्तोमेभि: । आयव: ॥ सम्ऽईचीनास: । ऋभव: । सम् । अस्वरन् । रुद्रा: । गृणन्त । पूर्व्यम् ॥९९.१॥
Atharvaveda » Kand:20» Sukta:99» Paryayah:0» Mantra:1
PANDIT KSHEMKARANDAS TRIVEDI
परमेश्वर के गुणों का उपदेश।
Word-Meaning: - (इन्द्र) हे इन्द्र ! [परम ऐश्वर्यवाले परमात्मन्] (पूर्वपीतये) पहिले [मुख्य] भोग के लिये, (समीचीनासः) साधु, (ऋभवः) बुद्धिमान्, (रुद्राः) स्तुति करनेवाले (आयवः) मनुष्यों ने (स्तोमेभिः) स्तोत्रों से (पूर्व्यम्) प्राचीन (त्वाम्) तुझको (सम्) मिलकर (अभि) सब प्रकार (अस्वरन्) आलापा है और (गृणन्त) गाया है ॥१॥
Connotation: - सब बुद्धिमान् लोग परमेश्वर के गुणों को जानकर अपनी उन्नति करें ॥१॥
Footnote: दोनों मन्त्र ऋग्वेद में हैं-८।३।७, ८ सामवेद-उ० ७।३।१ मन्त्र १ साम० पू० ३।७।४ ॥ १−(अभि) अभितः (त्वा) त्वाम् (पूर्वपीतये) प्रथमपानाय। मुख्यभोगाय (इन्द्र) हे परमैश्वर्यवन् परमात्मन् (स्तोमेभिः) स्तोत्रैः (आयवः) मनुष्याः-निघ० २।३। (समीचीनासः) संगताः। साधवः (ऋभवः) मेधाविनः (सम्) संगत्य (अस्वरन्) स्वृ शब्दोपतापयोः। अस्तुवन् (रुद्राः) स्तोतारः-निघ० ३।१६। (गृणन्त) स्तुतवन्तः (पूर्व्यम्) प्राचीनम् ॥
