कदू॒ न्वस्याकृ॑त॒मिन्द्र॑स्यास्ति॒ पौंस्य॑म्। केनो॒ नु कं॒ श्रोम॑तेन॒ न शु॑श्रुवे ज॒नुषः॒ परि॑ वृत्र॒हा ॥
Pad Path
कत् । ऊं इति । नु । अस्य । अकृतम् । इन्द्रस्य । अस्ति । पौंस्यम् ॥ केनो इति । नु । कम् । श्रोमतेन । न । शुश्रुवे । जनुष: । परि । वृत्रऽहा ॥९७.३॥
Atharvaveda » Kand:20» Sukta:97» Paryayah:0» Mantra:3
Reads times
PANDIT KSHEMKARANDAS TRIVEDI
वीर के लक्षणों का उपदेश।
Word-Meaning: - (अस्य) इस (इन्द्रस्य) इन्द्र [बड़े ऐश्वर्यवाले वीर] का (नु) अब (कत् उ) कौन सा (पौंस्यम्) पौरुष (अकृतम्) बिना किया हुआ (अस्ति) है ? (केनो) किस (श्रोमतेन) श्रुति [वेद] माननेवाले करके (नु) अब (जनुषः परि) जन्म से लेकर (वृत्रहा) शत्रुनाशक [वीर पुरुष] (कम्) सुख से (न) नहीं (शुश्रुवे) सुना गया है ॥३॥
Connotation: - जब मनुष्य विश्वकर्मा होकर अपना सब धार्मिक कर्तव्य कर लेता है, तब वह वीर समस्त संसार से बड़ाई पाता है ॥३॥
Footnote: ३−(कत्) किम् (उ) एव (नु) इदानीम् (अस्य) (अकृतम्) अनाचारितम् (इन्द्रस्य) परमैश्वर्यवतो वीरस्य (अस्ति) (पौंस्यम्) पौरुषम् (केनो) केनापि (नु) इदानीम् (कम्) सुखेन (श्रोमतेन) गमेर्डोः। उ० २।६७। श्रु श्रवणे-डोप्रत्ययः+मन ज्ञाने पूजायां च-क्त। श्रोः श्रवणीयो वेदो मतः संमानितो येन तेन (न) निषेधे (शुश्रुवे) श्रु श्रवणे-कर्मणि लिट्। श्रूयते स्म (जनुषः) जन्मनः सकाशात् (परि) (वृत्रहा) शत्रुनाशकः ॥