यदि॑ क्षि॒तायु॒र्यदि॑ वा॒ परे॑तो॒ यदि॑ मृ॒त्योर॑न्ति॒कं नीत ए॒व। तमा ह॑रामि॒ निरृ॑तेरु॒पस्था॒दस्पा॑र्शमेनं श॒तशा॑रदाय ॥
यदि । क्षितऽआयु: । यदि । वा । पराऽइत: । यदि । मृत्यो: । अन्तिकम् । निऽइत: । एव ॥ तम् । आ । हरामि । नि:ऽऋते: । उपऽस्थात् । अस्पार्शम् । एनम् । शतऽशारदाय ॥९६.७॥
PANDIT KSHEMKARANDAS TRIVEDI
रोग नाश करने का उपदेश।
