अ॑श्वा॒यन्तो॑ ग॒व्यन्तो॑ वा॒जय॑न्तो॒ हवा॑महे॒ त्वोप॑गन्त॒वा उ॑। आ॒भूष॑न्तस्ते सुम॒तौ नवा॑यां व॒यमि॑न्द्र त्वा शु॒नं हु॑वेम ॥
अश्वऽयन्त: । गव्यन्त: । वाजयन्त: । हवामहे । त्वा । उपऽगन्तवै । ऊं इति ॥ आऽभूषन्त: । ते । सुऽमतौ । नवायाम् । वयम् । इन्द्र । त्वा । शुनम् । हुवेम॥९६.५॥
PANDIT KSHEMKARANDAS TRIVEDI
राजा के कर्तव्य का उपदेश।
