Go To Mantra
Viewed 85 times

तुभ्यं॑ सु॒तास्तुभ्य॑मु॒ सोत्वा॑स॒स्त्वां गिरः॒ श्वात्र्या॒ आ ह्व॑यन्ति। इन्द्रे॒दम॒द्य सव॑नं जुषा॒णो विश्व॑स्य वि॒द्वाँ इ॒ह पा॑हि॒ सोम॑म् ॥

Mantra Audio
Pad Path

तुभ्यम् । सुता: । तुभ्यम् । ऊं इति । सोत्वास: । त्वाम् । गिर: । श्वात्र्या: । आ । ह्वयन्ति ॥ इन्द्र । इदम् । अद्य । सवनम् । जुषाण: । विश्वस्य । विद्वान् । इह । पाहि । सोमम् ॥९६.२॥

Atharvaveda » Kand:20» Sukta:96» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

राजा के कर्तव्य का उपदेश।

Word-Meaning: - (इन्द्र) हे इन्द्र ! [महाप्रतापी राजन्] (तुभ्यम्) तेरे लिये (सुताः) सिद्ध किये हुए, (उ) और (तुभ्यम्) तेरे लिये (सोत्वासः) सिद्ध होनेवाले [तत्त्व रस] हैं, (त्वाम्) तुझको (श्वात्र्याः) गतिवाली [प्रजा] की (गिरः) वाणियाँ (आह्वयन्ति) बुलाती हैं। (अद्य) अत्र (इदम्) इस (सवनम्) ऐश्वर्य कर्म का (जुषाणः) सेवन करता हुआ और (विश्वस्य) सबका (विद्वान्) जाननेवाला तू (इह) यहाँ पर (सोमम्) उत्पन्न संसार की (पाहि) रक्षा कर ॥२॥
Connotation: - राजा को चाहिये कि भूत भविष्यत् और वर्तमान को विचारकर प्रजा की सदा रक्षा करे ॥२॥
Footnote: २−(तुभ्यम्) त्वदर्थम् (सुताः) संस्कृतास्तत्त्वरसाः (तुभ्यम्) (उ) च (सोत्वासः) कृत्यार्थे तवैकेन्केन्यत्वनः। पा० ३।४।१४। सुनोतेः-त्वन् सोतव्याः। संस्कर्तव्याः (त्वाम्) (गिरः) वाण्यः (श्वात्र्याः) श्वात्रतिर्गतिकर्मा-निघ० २।१४। अच् प्रत्ययः, ङीप्। गतिशीलायाः प्रजायाः (आ ह्वयन्ति) आक्रोशन्ति (इन्द्र) परमैश्वर्यवन् राजन् (इदम्) (अद्य) (सवनम्) ऐश्वर्यकर्म (जुषाणः) सेवमानः (विश्वस्य) सर्वस्य (विद्वान्) ज्ञाता (इह) अत्र (पाहि) रक्ष (सोमम्) उत्पन्नं संसारम् ॥