Go To Mantra

इ॒मं बि॑भर्मि॒ सुकृ॑तं ते अङ्कु॒शं येना॑रु॒जासि॑ मघवञ्छफा॒रुजः॑। अ॒स्मिन्त्सु ते॒ सव॑ने अस्त्वो॒क्यं सु॒त इ॒ष्टौ म॑घवन्बो॒ध्याभ॑गः ॥

Mantra Audio
Pad Path

इमम् । बिभर्मि । सुऽकृतम् । ते । अङ्कुशम् । येन । आऽरुजासि । मघऽवन् । शफऽआरुज: ॥ अस्मिन् । सु । ते । सवने । अस्तु । ओक्यम् । सुते । इष्टौ । मघऽवन् । बोधि । आऽभग:॥९४.९॥

Atharvaveda » Kand:20» Sukta:94» Paryayah:0» Mantra:9


Reads 61 times

PANDIT KSHEMKARANDAS TRIVEDI

राजा और प्रजा के कर्तव्य का उपदेश।

Word-Meaning: - (मघवन्) हे महाधनी ! (इमम्) इस (सुकृतम्) दृढ़ बने हुए (अङ्कुशम्) अङ्कुश को (ते) तेरे लिये (बिभर्भि) मैं रखता हूँ, (येन) जिस [कारण] से (शफारुजः) शान्ति भंजकों को (आरुजासि) तू नष्ट करे। (अस्मिन्) इस (सवने) ऐश्वर्य के बीच (ते) तेरा (ओक्यम्) निवास (सु) भले प्रकार (अस्तु) होवे, (इष्टौ) यज्ञ [देवपूजा, संगतिकरण और दान] के बीच (सुते) सिद्ध किये हुए तत्त्व रस में (मघवन्) हे महाधनी ! (आभगः) बड़ा ऐश्वर्य (बोधि) जाना जाता है ॥९॥
Connotation: - विद्वान् लोग राजा की रक्षा के लिये अङ्कुश आदि हथियार धारण करके शत्रुओं को हटाकर ऐश्वर्य बढ़ावें ॥९॥
Footnote: ९−(इमम्) दृश्यमानम् (बिभर्भि) धरामि (सुकृतम्) दृढनिर्मितम् (ते) तुभ्यम् (अङ्कुशम्) आयुधविशेषम् (येन) कारणेन (आरुजासि) आरुजसि। आभिमुख्येन पीडयसि (मघवन्) हे धनवन् (शफारुजः) अ० ८।३।२१। शम शान्तौ-अच्, मस्य फः, शफ+आ+रुजो भङ्गे-क्विप्। शान्तिसम्भञ्जकान् (अस्मिन्) (सु) सुष्ठु (ते) तव (सवने) ऐश्वर्ये (अस्तु) (ओक्यम्) ओकः। निवासः (सुते) संस्कृते तत्त्वरसे (इष्टौ) यज्ञे। देवपूजादिव्यवहारे (मघवन्) (बोधि) अबोधि। ज्ञायते (आभगः) समन्ताद् ऐश्वर्यम् ॥