Go To Mantra
Viewed 97 times

स॒त्यमा॒शिषं॑ कृणुता वयो॒धै की॒रिं चि॒द्ध्यव॑थ॒ स्वेभि॒रेवैः॑। प॒श्चा मृधो॒ अप॑ भवन्तु॒ विश्वा॒स्तद्रो॑दसी शृणुतं विश्वमि॒न्वे ॥

Mantra Audio
Pad Path

सत्याम् । आऽशिषम् । कृणुत । वय:ऽधै । कीरिम् । चित् । हि । अवथ । स्वेभि: । एवै: ॥ पश्चा । मृध: । अप । भवन्तु । विश्वा: । तत् । रोदसी इति । शृणुतम् । विश्वमिन्वे इति विश्वम्ऽइन्वे ॥९१.११॥

Atharvaveda » Kand:20» Sukta:91» Paryayah:0» Mantra:11


PANDIT KSHEMKARANDAS TRIVEDI

परमात्मा के गुणों का उपदेश।

Word-Meaning: - [हे विद्वानो !] (वयोधै) जीवन धारण करने के लिये (आशिषम्) मेरी प्रार्थना को (सत्याम्) सत्य (कृणुत) करो, (कीरिम्) स्तुति करनेवाले को (स्वेभिः) अपने (एवैः) उद्योगों से तुम (चित् हि) अवश्य ही (अवथ) बचाते हो। (विश्वा) सब (मृधः) सतानेवाली सेनाएँ (पश्चा) पीछे (अप भवन्तु) हट जावें (तत्) इसको, (विश्वमिश्वे) हे सबमें व्यापक (रोदसी) आकाश और भूमि ! (शृणुतम्) दोनों सुनो ॥११॥
Connotation: - विद्वान् लोग संसार के सब पदार्थों से उपकार लेकर प्रजा की रक्षा करें ॥११॥
Footnote: ११−(सत्याम्) यथार्थाम् (आशिषम्) प्रार्थानाम् (कृणुत) कुरुत (वयोधै) प्रयै रोहिष्यै अव्यथिष्यै। पा० ३।४।१०। वयस्+दधातेः-कै प्रत्ययस्तुमर्थे। जीवनं धारयितुम् (कीरिम्) अ० २०।१७।१२। स्तोतारम् (चित्) अवश्यम् (हि) एव (अवथ) रक्षथ (स्वेभिः) आत्मीयैः (एवैः) गमनैः। उद्योगैः (पश्चा) पश्चात् (मृधः) हिंसिकाः सेनाः (अप) दूरे (भवन्तु) (विश्वाः) सर्वाः (तत्) वचनम् (रोदसी) हे आकाशभूमी (शृणुतम्) (विश्वमिन्वे) अ० २०।३।४। हे सर्वव्यापिके ॥