Go To Mantra
Viewed 81 times

जना॑य चि॒द्य ईव॑ते उ लो॒कं बृह॒स्पति॑र्दे॒वहू॑तौ च॒कार॑। घ्नन्वृ॒त्राणि॒ वि पुरो॑ दर्दरीति॒ जयं॒ छत्रूं॑र॒मित्रा॑न्पृ॒त्सु साह॑न् ॥

Mantra Audio
Pad Path

जनाय । चित् । व: । ईवते । ऊं इति । लोकम् । बृहस्पति: । देवऽहूतौ । चकार ॥ घ्नन् । वृत्राणि । वि । पुर: । दर्दरीति । जयन् । शत्रून् । अमित्रान् । पृत्सु । सहन् ॥९०.२॥

Atharvaveda » Kand:20» Sukta:90» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

राजा के लक्षण का उपदेश।

Word-Meaning: - (यः) जिस (बृहस्पतिः) बृहस्पति [बड़ी विद्याओं के रक्षक राजा] ने (चित् उ) अवश्य ही (ईवते) गतिमान् (जनाय) मनुष्य के लिये (देवहूतौ) विद्वानों के बुलावे में (लोकम्) दर्शनीय स्थान (चकार) किया है। वह (वृत्राणि) धनों को (घ्नन्) पाता हुआ और (अमित्रान्) सतानेवाले (शत्रून्) वैरियों को (पृत्सु) सङ्ग्रामों में (जयन्) जीतता हुआ और (साहन्) हराता हुआ (पुरः) [उनके] दुर्गों को (वि दर्दरीति) तोड़ डालता है ॥२॥
Connotation: - जो वीर राजा विद्वान् उद्योगी जनों का आदर करता है, वह धनवान् होकर और शत्रुओं को जीतकर प्रजा को पालता है ॥२॥
Footnote: २−(जनाय) (चित्) अवश्यम् (यः) (ईवते) गतिमते (उ) एव (लोकम्) दर्शनीयं स्थानम् (बृहस्पतिः) बृहतीनां विद्यानां पालकः (देवहूतौ) देवानामाह्वाने (चकार) कृतवान् (घ्नन्) गच्छन्। प्राप्नुवन् (वृत्राणि) धनानि (वि) विशेषेण (पुरः) शत्रूणां नगराणि। दुर्गाणि (दर्दरीति) भृशं विदृणाति (जयन्) (शत्रून्) (अमित्रान्) अम पीडने-इत्रन्। पीडकान् (पृत्सु) पृतनासु। संग्रामेषु (साहन्) अभिभवन् ॥