Go To Mantra

द्यु॒क्षं सु॒दानुं॒ तवि॑षीभि॒रावृ॑तं गि॒रिं न पु॑रु॒भोज॑सम्। क्षु॒मन्तं॒ वाजं॑ श॒तिनं॑ सह॒स्रिणं॑ म॒क्षू गोम॑न्तमीमहे ॥

Mantra Audio
Pad Path

द्युक्षम् । सुऽदानुम् । तविषीभि: । आऽवृतम् । गिरिम् । न । पुरुऽभोजसम् ॥ क्षुऽमन्तम् । वाजम् । शतिनम् । सहस्रिणम् । मक्षु । गोऽमन्तम् । ईमहे ॥९.२॥

Atharvaveda » Kand:20» Sukta:9» Paryayah:0» Mantra:2


Reads 62 times

PANDIT KSHEMKARANDAS TRIVEDI

ईश्वर की उपासना का उपदेश।

Word-Meaning: - (द्युक्षम्) व्यवहारों में गतिवाले, (सुदानुम्) बड़े दानी, (तविषीभिः) सेनाओं से (आवृतम्) भरपूर (गिरिम् न) मेघ के समान (पुरुभोजसम्) बहुत पालन करनेवाले, (क्षुमन्तम्) अन्नवाले, (वाजम्) बलवाले, (शतिनम्) सैकड़ों उत्तम पदार्थोंवाले (सहस्रिणम्) सहस्रों श्रेष्ठ, गुणवाले, (गोमन्तम्) उत्तम गौओंवाले [शूर पुरुष] को (मक्षू) शीघ्र [इन्द्र परमात्मा से] (ईमहे) हम माँगते हैं ॥२॥
Connotation: - मनुष्य परमात्मा से प्रार्थना करके प्रयत्न करें कि वे अपने सन्तानों, अधिकारियों और प्रजाजनों सहित शूरवीर होकर व्यवहारकुशल होवें ॥२॥
Footnote: २−(द्युक्षम्) दिवु व्यवहारे-डिवि+क्षि निवासगत्योः-डप्रत्ययः। द्युषु व्यवहारेषु गन्तारम् (सुदानुम्) महादानिनम् (तविषीभिः) तु वृद्धौ पूर्तौ च-टिषन्, ङीप्। तविषी बलनाम-निघ० २।९। बलैः। सेनाभिः (आवृतम्) आच्छादितम्। प्रपूर्णम् (गिरिम्) गिरिर्मेघनाम-निघ० १।१०। मेघम् (न) इव (पुरुभोजसम्) बहुपालकम् (क्षुमन्तम्) आङ्परयोः खनिशॄभ्यां डिच्च। उ० १।३३। टुक्षु शब्दे, क्षि निवासगत्योः, ऐश्वर्ये च-कुप्रत्ययः स च डित्। क्षु अन्ननाम-निघ० २।७। अन्नवन्तम् (वाजम्) अर्शआद्यच्। वाजवन्तम्। बलवन्तम् (शतिनम्) असंख्यश्रेष्ठपदार्थयुक्तम् (सहस्रिणम्) तपःसहस्राभ्यां विनीनी। पा० ।२।१०२। सहस्र-इनि। असंख्यश्रेष्ठगुणोपेतम् (मक्षु) शीघ्रम् (गोमन्तम्) प्रशस्तगोभिर्युक्तम् (ईमहे) याचामहे-निघ० ३।१९ ॥