Go To Mantra

यस्मि॑न्व॒यं द॑धि॒मा शंस॒मिन्द्रे॒ यः शि॒श्राय॑ म॒घवा॒ काम॑म॒स्मे। आ॒राच्चि॒त्सन्भ॑यतामस्य॒ शत्रु॒र्न्यस्मै द्यु॒म्ना जन्या॑ नमन्ताम् ॥

Mantra Audio
Pad Path

यस्मिन् । वयम् । दधिम । शंसम् । इन्द्रे । य: । शिश्राय । मघऽवा । कामम् । अस्मै इति ॥ आरात् । चित् । सन् । भयताम् । अस्य । शत्रु: । नि । अस्मै । द्युम्ना । जन्या । नमन्ताम् ॥८९.६॥

Atharvaveda » Kand:20» Sukta:89» Paryayah:0» Mantra:6


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

मनुष्य के कर्तव्य का उपदेश।

Word-Meaning: - (यस्मिन्) जिस (इन्द्रे) इन्द्र [बड़े प्रतापी वीर] में (शंसम्) अपनी इच्छा को (वयम्) हमने (दधिम) रक्खा था और (यः) जिस (मघवा) धनवान् ने (अस्मे) हममें (कामम्) अपनी कामना को (शिश्राय) आश्रय दिया था। (आरात्) दूर (चित्) भी (सन्) रहता हुआ (शत्रुः) शत्रु (अस्य) उसका (भयताम्) भय माने, और (अस्मै) उसके लिये (जन्या) लोगों के हितकारी (द्युम्नानि) प्रकाशमान यश (नि) नित्य (नमन्तात्) नमते रहें ॥६॥
Connotation: - जहाँ पर प्रजागण और प्रधान वीर पुरुष परस्पर हित के लिये प्रयत्न करते हैं, वहाँ पर शत्रु लोग दुराचार नहीं करते, और सब लोग उन्नति करके यशस्वी होते हैं ॥६॥
Footnote: ६−(यस्मिन्) (वयम्) प्रजागणाः (दधिम) धृतवन्तः (शंसम्) शसि इच्छायाम्-घञ्। आशंसाम्। आकाङ्क्षाम् (इन्द्रे) परप्रतापिनि वीरे (यः) (शिश्राय) आश्रितवान्। स्थापितवान् (मघवा) धनवान् (कामम्) अभिलाषम् (अस्मे) अस्मासु (आरात्) दूरे (चित्) अपि (सन्) भवन् (भयताम्) बिभेतु। भयं प्राप्नोतु (अस्य) वीरस्य (शत्रुः) (नि) नितराम् (अस्मै) वीराय (द्युम्ना) द्योतमानानि यशांसि (जन्या) जनहितानि (नमन्ताम्) प्रह्वीभवन्तु ॥