Go To Mantra

किम॒ङ्ग त्वा॑ मघवन्भो॒जमा॑हुः शिशी॒हि मा॑ शिश॒यं त्वा॑ शृणोमि। अप्न॑स्वती॒ मम॒ धीर॑स्तु शक्र वसु॒विदं॒ भग॑मि॒न्द्रा भ॑रा नः ॥

Mantra Audio
Pad Path

किम् । अङ्ग । त्वा । मघऽवन् । भोजम् । आहु: । शिशीहि । मा । शिशयम् । त्वा । शृणोमि ॥ अप्नस्वती । मम ।धी: । अस्तु । शक्र । वसुऽविदम् । भगम् । इन्द्र । आ । भर । न: ॥८९.३॥

Atharvaveda » Kand:20» Sukta:89» Paryayah:0» Mantra:3


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

मनुष्य के कर्तव्य का उपदेश।

Word-Meaning: - (अङ्ग) हे (मघवन्) धनवाले [पुरुष !] (किम्) किस लिये (त्वा) तुझको (भोजम्) पालन करनेवाला (आहुः) वे [विद्वान्] कहते हैं ? (मा) मुझको (शिशीहि) सचेत कर, (त्वा) तुझको (शिशयम्) उद्योगी (शृणोमि) मैं सुनती हूँ। (शक्र) हे शक्तिमान् ! (मम) मेरी (धीः) बुद्धि (अप्नस्वती) कर्मवाली (अस्तु) होवे, (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले पुरुष] (नः) हमारे लिये (वसुविदम्) धन पहुँचानेवाला (भगम्) ऐश्वर्य (आ) सब ओर से (भर) भर ॥३॥
Connotation: - कीर्तिमान् प्रधान पुरुष ऐसा प्रयत्न करें कि सब लोग बुद्धिमान् होकर कर्मवीर होवें ॥३॥
Footnote: ३−(किम्) किमर्थम् (अङ्ग) सम्बोधने (त्वा) त्वाम् (मघवन्) धनवन् (भोजम्) पालकम् (आहुः) कथयन्ति विद्वांसः (शिशीहि) अ० २०।३७।८। तीक्ष्णीकुरु। सचेतसं कुरु (मा) माम् (शिशयम्) वलिमलितनिभ्यः कयन्। उ० ४।९९। शश प्लुतगतौ-कयन्, अकारस्य इकारः। उद्योगिनम् (त्वा) (शृणोमि) (अप्नस्वती) कर्मवती (मम) (धीः) प्रज्ञा (अस्तु) (शक्र) हे शक्तिमन् (वसुविदम्) धनस्य लम्भकम् (भगम्) ऐश्वर्यम् (इन्द्र) हे परमैश्वर्यवन् पुरुष (आ) समन्तात् (भर) धर (नः) अस्मभ्यम् ॥