Go To Mantra
Viewed 87 times

धु॒नेत॑यः सुप्रके॒तं मद॑न्तो॒ बृह॑स्पते अ॒भि ये न॑स्तत॒स्रे। पृष॑न्तं सृ॒प्रमद॑ब्धमू॒र्वं बृह॑स्पते॒ रक्ष॑तादस्य॒ योनि॑म् ॥

Mantra Audio
Pad Path

धुनऽइतय: । सुऽप्रकेतम् । मदन्त: । बृहस्पते । अभि । ये ।न: । ततस्रे ॥ पृषन्तम् । सृप्रम् । अदब्धम् । ऊर्वम् । बृहस्पते । रक्षताम् । अस्य । योनिम् ॥८८.२॥

Atharvaveda » Kand:20» Sukta:88» Paryayah:0» Mantra:2


PANDIT KSHEMKARANDAS TRIVEDI

विद्वानों के कर्तव्य का उपदेश।

Word-Meaning: - (बृहस्पते) हे बृहस्पति ! [बड़ी विद्याओं के रक्षक] (ये) जिन (धुनेतयः) शीघ्र गतिवाले, (सुप्रकेतम्) सुन्दर ज्ञान से (मदन्तः) प्रसन्न होते हुए [विद्वानों ने] (नः) हमको (अभि) सब ओर (ततस्रे) फैलाया है [प्रसिद्ध किया है]। (बृहस्पते) हे बृहस्पति ! [बड़े गुणों के स्वामी] (पृषन्तम्) सींचनेवाले, (सृप्रम्) ज्ञानवाले, (अदब्धम्) नष्ट न किये हुए, (ऊर्वम्) दोषनाशक (अस्य) उन [विद्वानों] के (योनिम्) कारण [वेदशास्त्र] को (रक्षतात्) तू रक्षित रख ॥२॥
Connotation: - जिस वेदज्ञान में महात्मा लोग मग्न होकर दूसरों को सुख पहुँचाते हैं, विद्वान् लोग उस वेद की रक्षा करके अर्थात् आज्ञा में चलकर आनन्द पावें ॥२॥
Footnote: २−(धुनेतयः) तृषिशुषिरसिभ्यः कित्। उ० ३।१२। धुञ् कम्पने न प्रत्ययः, कित्+इण् गतौ क्तिन्। शीघ्रगतयः (सुप्रकेतम्) यथा तथा। शोभनेन ज्ञानेन (मदन्तः) हृष्यन्तः (बृहस्पते) महतीनां विद्यानां रक्षक (अभि) सर्वतः (ये) विद्वांसः (नः) अस्मान् (ततस्रे) अ० २०।७२।२। विस्तारितवन्तः। प्रसिद्धान् कृतवन्तः (पृषन्तम्) सिञ्चन्तम् (सृप्रम्) स्फायितञ्चिवञ्चि०। उ० २।१३। सृप्लृ गतौ-रक्। ज्ञानवन्तम् (अदब्धम्) अहिंसितम्। अनाशितम् (ऊर्वम्) उर्वी हिंसायाम्-पचाद्यच्। दोषनाशकम् (बृहस्पते) बृहतां गुणानां स्वामिन् (रक्षतात्) रक्ष (अस्य) बहुवचनस्यैकवचनम्। एषां विदुषाम् (योनिम्) कारणं वेदशास्त्रम् ॥