त्वामु॒ग्रमव॑से चर्षणी॒सहं॒ राज॑न्दे॒वेषु॑ हूमहे। विश्वा॒ सु नो॑ विथु॒रा पि॑ब्द॒ना व॑सो॒ऽमित्रा॑न्सु॒षहा॑न्कृधि ॥
Pad Path
त्वाम् । उग्रम् । अवसे । चर्षणिऽसहम् । राजन् । देवेषु । हूमहे ॥ विश्वा । सु । न: । विथुरा । पिब्दना । वसो इति । अमित्रान् । सुऽसहान् । कृधि ॥८०.२॥
Atharvaveda » Kand:20» Sukta:80» Paryayah:0» Mantra:2
Reads 57 times
PANDIT KSHEMKARANDAS TRIVEDI
राजा के कर्तव्य का उपदेश।
Word-Meaning: - (राजन्) हे राजन् ! (देवेषु) विद्वानों में (अवसे) रक्षा के लिये (उग्रम्) तेजस्वी, (चर्षणीसहम्) मनुष्यों को वश में रखनेवाले (त्वाम्) तुझको (हूमहे) हम पुकारते हैं। (वसो) हे बसानेवाले ! (नः) हमारे (विश्वा) सब (विथुरा) क्लेशों को (पिब्दना) खण्डनयोग्य और (अमित्रान्) वैरियों को (सुसहान्) सहज में हारने योग्य (सु) सर्वथा (कृधि) कर ॥२॥
Connotation: - राजा सदा ऐसा उपाय करे कि जिससे प्रजा के सब बाहिरी और भीतरी क्लेश दूर होवें ॥२॥
Footnote: २−(त्वाम्) (उग्रम्) तेजस्विनम् (अवसे) रक्षणाय (चर्षणीसहम्) मनुष्याणां सोढारम्। अभिभवितारं वशीकर्तारम् (राजन्) ऐश्वर्यवन् (देवेषु) विद्वत्सु (हूमहे) आह्वयामः (विश्वा) सर्वाणि (सु) सर्वथा (नः) अस्माकम् (विथुरा) अ० ७।९।१। व्यथ ताडने-उरच्, कित्। व्यथनानि। क्लेशान् (पिब्दना) कॄपॄवृजिमन्दिनिधाञः क्युः। उ० २।८१। अपि+दाप् लवने दो अवखण्डने वा क्यु। आतो लोप इटि च। पा० ६।४।६४। आकारलोपः, बकारोपजनः। अपिदनानि। अवखण्डनीयानि (वसो) हे वासयितः (अमित्रान्) शत्रून् (सुसहान्) सुखेन अभिभवनीयान् (कृधि) कुरु ॥
